भक्ष्यार्थं तु उभौ यातौ कपोतो नगम् अभ्यगात् सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते
गृहीता लुब्धकेनाथ जीवमानेव वर्तते कपोतको ऽप्य् अपत्यानि मातृहीनान्य् उदीक्ष्य च
वर्षं च भीषणं प्राप्तम् अस्तं यातो दिवाकरः स्वकोटरं तया हीनम् आलोक्य विललाप सः
तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम्
नाद्याप्य् आयाति कल्याणी मम हर्षविवर्धिनी मम धर्मस्य जननी मम देहस्य चेश्वरी
धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी
सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा नाद्याप्य् आयाति कल्याणी संप्रयाते ऽपि भास्करे
न जानाति व्रतं मन्त्रं दैवं धर्मार्थम् एव च पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया
नाद्याप्य् आयाति कल्याणी किं करोमि क्व यामि वा किं मे गृहं काननं च तया हीनं हि दृश्यते
तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् नाद्याप्य् आयाति मे कान्ता यया गृहम् उदीरितम्
विनानया न जीविष्ये त्यजे वापि प्रियां तनुम् किं कुर्वन्तु त्व् अपत्यानि लुप्तधर्मस् त्व् अहं पुनः
एवं विलपतस् तस्य भर्तुर् वाक्यं निशम्य सा पञ्जरस्थैव सा वाक्यं भर्तारम् इदम् अब्रवीत्
अत्राहम् अस्मि बद्धैव विवशास्मि खगोत्तम आनीताहं लुब्धकेन बद्धा पाशैर् महामते
धन्यास्म्य् अनुगृहीतास्मि पतिर् वक्ति गुणान् मम सतो वाप्य् असतो वापि कृतार्थाहं न संशयः
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः विपर्यये तु नारीणाम् अवश्यं नाशम् आप्नुयात्
त्वं दैवं त्वं प्रभुर् मह्यं त्वं सुहृत् त्वं परायणम् त्वं व्रतं त्वं परं ब्रह्म स्वर्गो मोक्षस् त्वम् एव च
मा चिन्तां कुरु कल्याण धर्मे बुद्धिं स्थिरां कुरु त्वत्प्रसादाच् च भुक्ता हि भोगाश् च विविधा मया अलं खेदेन मज्जेन धर्मे बुद्धिं कुरु स्थिराम्
इति श्रुत्वा प्रियावाक्यम् उत्ततार नगोत्तमात् यत्र सा पञ्जरस्था तु कपोती वर्तते त्वरम्
ताम् आगत्य प्रियां दृष्ट्वा मृतवच् चापि लुब्धकम् मोचयामीति ताम् आह निश्चेष्टो लुब्धको ऽधुना
मा मुञ्चस्व महाभाग ज्ञात्वा संबन्धम् अस्थिरम् लुब्धानां खेचरा ह्य् अन्नं जीवो जीवस्य चाशनम्
नापराधं स्मराम्य् अस्य धर्मबुद्धिं स्थिरां कुरु गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः
पतिर् एव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः अभ्यागतम् अनुप्राप्तं वचनैस् तोषयन्ति ये
तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् तस्यान्नस्य प्रदानेन शक्रस् तृप्तिम् अवाप्नुयात्
पितरः पादशौचेन अन्नाद्येन प्रजापतिः तस्योपचाराद् वै लक्ष्मीर् विष्णुना प्रीतिम् आप्नुयात्
शयने सर्वदेवास् तु तस्मात् पूज्यतमो ऽतिथिः अभ्यागतम् अनुश्रान्तं सूर्योढं गृहम् आगतम् तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्य् असौ
अभ्यागतं श्रान्तम् अनुव्रजन्ति देवाश् च सर्वे पितरो ऽग्नयश् च तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति गते निराशे ऽपि च ते निराशाः
तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर
उपकारो ऽपकारश् च प्रवराव् इति संमतौ उपकारिषु सर्वो ऽपि करोत्य् उपकृतिं पुनः
अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः
आवयोर् अनुरूपं च त्वयोक्तं साधु मन्यसे किंतु वक्तव्यम् अप्य् अस्ति तच् छृणुष्व वरानने