तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः
हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् एवंभूतः स पापात्मा क्रोधनो ऽनृतभाषणः
भीषणाकृतिर् अत्युग्रो नीलाक्षो ह्रस्वबाहुकः दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः
ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा
तस्य भार्या तथाभूता अपत्यान्य् अपि नारद तया तु प्रेर्यमाणो ऽसौ विवेश गहनं वनम्
स जघान मृगान् पापः पक्षिणो बहुरूपिणः पञ्जरे प्राक्षिपत् कांश्चिज् जीवमानांस् तथेतरान्
क्षुधया परितप्ताङ्गो विह्वलस् तृषया तथा भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति
ततो ऽपराह्णे संप्राप्ते निवृत्ते मधुमाधवे क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा
ववौ वायुः साश्मवर्षो वारिधारातिभीषणः स गच्छंल् लुब्धकः श्रान्तः पन्थानं नावबुध्यत
जलं स्थलं गर्तम् अथो पन्थानम् अथवा दिशः न बुबोध तदा पापः श्रान्तः शरणम् अप्य् अथ
क्व गच्छामि क्व तिष्ठेयं किं करोमीत्य् अचिन्तयत् सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः
ममाप्य् अन्तकरं भूतं संप्राप्तं चाश्मवर्षणम् त्रातारं नैव पश्यामि शिलां वा वृक्षम् अन्तिके
एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके वने वनस्पतिम् इव नक्षत्राणां यथात्रिजम्
मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम्
श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् तम् आश्रित्योपविष्टो ऽभूत् क्लिन्नवासा स लुब्धकः
स्मरन् भार्याम् अपत्यानि जीवेयुर् अथवा न वा एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः
तम् एव नगम् आश्रित्य कपोतो भार्यया सह पुत्रपौत्रैः परिवृतो ह्य् आस्ते तत्र नगोत्तमे
सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च बहवो वत्सरा याता वसतस् तस्य पक्षिणः
पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते
भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः तस्मिन् दिने दैववशात् कपोतश् च कपोतकी
भक्ष्यार्थं तु उभौ यातौ कपोतो नगम् अभ्यगात् सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते
गृहीता लुब्धकेनाथ जीवमानेव वर्तते कपोतको ऽप्य् अपत्यानि मातृहीनान्य् उदीक्ष्य च
वर्षं च भीषणं प्राप्तम् अस्तं यातो दिवाकरः स्वकोटरं तया हीनम् आलोक्य विललाप सः
तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम्
नाद्याप्य् आयाति कल्याणी मम हर्षविवर्धिनी मम धर्मस्य जननी मम देहस्य चेश्वरी
धर्मार्थकाममोक्षाणां सैव नित्यं सहायिनी तुष्टे हसन्ती रुष्टे च मम दुःखप्रमार्जनी
सखी मन्त्रेषु सा नित्यं मम वाक्यरता सदा नाद्याप्य् आयाति कल्याणी संप्रयाते ऽपि भास्करे
न जानाति व्रतं मन्त्रं दैवं धर्मार्थम् एव च पतिव्रता पतिप्राणा पतिमन्त्रा पतिप्रिया
नाद्याप्य् आयाति कल्याणी किं करोमि क्व यामि वा किं मे गृहं काननं च तया हीनं हि दृश्यते
तया युक्तं श्रिया युक्तं भीषणं वापि शोभनम् नाद्याप्य् आयाति मे कान्ता यया गृहम् उदीरितम्