रसातलम् अनुप्राप्तः सिन्धुसेन इति श्रुतः यज्ञे तलम् अनुप्राप्ते निर्यज्ञा ह्य् अभवन् मही
नायं लोको ऽस्ति न परो यज्ञे नष्ट इतीत्वराः सुरास् तम् एव विविशू रसातलम् अनुद्विषम्
नाशक्नुवंस् तु तं जेतुं देवा इन्द्रपुरोगमाः विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन्
राक्षसस्य तु तत् कर्म यज्ञभ्रंशम् अशेषतः ततः प्रोवाच भगवान् वाराहं वपुर् आस्थितः
शङ्खचक्रगदापाणिर् गत्वा चैव रसातलम् आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान्
स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक्
जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् स वराहवपुः श्रीमान् रसातलनिवासिनः
राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् वाराहरूपी भगवान् मखम् आदाय यज्ञभुक्
येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात्
तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः पथस् तस्माद् विनिःसृत्य गङ्गास्रवणम् अभ्यगात्
प्राक्षालयच् च स्वाङ्गानि असृग्लिप्तानि नारद गङ्गाम्भसा तत्र कुण्डं वाराहम् अभवत् ततः
मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः दत्तवांस् त्रिदशश्रेष्ठो मुखाद् यज्ञो ऽभ्यजायत
ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते वाराहरूपम् अभवद् एवं वै कारणान्तरात्
तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
तत्र स्थितो ऽपि यः कश्चित् पितॄन् स्मरति पुण्यकृत् विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गम् आप्नुयुः
कुशावर्तस्य माहात्म्यम् अहं वक्तुं न ते क्षमः तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः
कुशावर्तम् इति ख्यातं नराणां सर्वकामदम् कुशेनावर्तितं यत्र गौतमेन महात्मना
कुशेनावर्तयित्वा तु आनयाम् आस तां मुनिः तत्र स्नानं च दानं च पितॄणां तृप्तिदायकम्
नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः
सर्वं तद् अक्षयं विद्यात् पितॄणां तृप्तिदायकम् विश्रुतं त्रिषु लोकेषु कपोतं तीर्थम् उत्तमम्
तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः
हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् एवंभूतः स पापात्मा क्रोधनो ऽनृतभाषणः
भीषणाकृतिर् अत्युग्रो नीलाक्षो ह्रस्वबाहुकः दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः
ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा
तस्य भार्या तथाभूता अपत्यान्य् अपि नारद तया तु प्रेर्यमाणो ऽसौ विवेश गहनं वनम्
स जघान मृगान् पापः पक्षिणो बहुरूपिणः पञ्जरे प्राक्षिपत् कांश्चिज् जीवमानांस् तथेतरान्
क्षुधया परितप्ताङ्गो विह्वलस् तृषया तथा भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति
ततो ऽपराह्णे संप्राप्ते निवृत्ते मधुमाधवे क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा
ववौ वायुः साश्मवर्षो वारिधारातिभीषणः स गच्छंल् लुब्धकः श्रान्तः पन्थानं नावबुध्यत
जलं स्थलं गर्तम् अथो पन्थानम् अथवा दिशः न बुबोध तदा पापः श्रान्तः शरणम् अप्य् अथ