तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः
तस्या अपि प्रसादं च प्राप्य बालो ऽप्य् अबालवत् गङ्गां महेश्वरात् प्राप्ताम् आदायागाद् रसातलम्
न्यवेदयत् स मुनये कपिलाय महात्मने यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः
प्रदक्षिणम् अथावर्त्य कृताञ्जलिपुटो ऽब्रवीत्
देवि मे पितरः शापात् कपिलस्य महामुनेः प्राप्तास् ते विगतिं मातस् तस्मात् तान् पातुम् अर्हसि
तथेत्य् उक्त्वा सुरनदी सर्वेषाम् उपकारिका लोकानाम् उपकारार्थं पितॄणां पावनाय च
अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः स्मरणाद् एव पापानां नाशाय सुरनिम्नगा
भगीरथोदितं चक्रे रसातलतले स्थितान् भस्मीभूतान् नृपसुतान् सागरांश् च विशेषतः
विनिर्दग्धान् अथाप्लाव्य खातपूरम् अथाकरोत् ततो मेरुं समाप्लाव्य स्थितां बालो ऽब्रवीन् नृपः
कर्मभूमौ त्वया भाव्यं तथेत्य् आगाद् धिमालयम् हिमवत्पर्वतात् पुण्याद् भारतं वर्षम् अभ्यगात्
तन्मध्यतः पुण्यनदी प्रायात् पूर्वार्णवं प्रति एवम् एषापि ते प्रोक्ता गङ्गा क्षात्रा महामुने
माहेश्वरी वैष्णवी च सैव ब्राह्मी च पावनी भागीरथी देवनदी हिमवच्छिखराश्रया
महेश्वरजटावारि एवं द्वैविध्यम् आगतम् विन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते उत्तरे सापि विन्ध्यस्य भागीरथ्य् अभिधीयते
न मनस् तृप्तिम् आधत्ते कथाः शृण्वत् त्वयेरिताः पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम्
क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम्
तीर्थानां च पृथग् भावं फलं माहात्म्यम् एव च सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः
तथापि किंचिद् वक्ष्यामि शृणु नारद यत्नतः यान्य् उक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च
तानि वक्ष्यामि संक्षेपान् नमस्कृत्वा त्रिलोचनम् यत्रासौ भगवान् आसीत् प्रत्यक्षस् त्र्यम्बको मुने
त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् वाराहम् अपरं तीर्थं त्रिषु लोकेषु विश्रुतम्
तस्य रूपं प्रवक्ष्यामि नाम विष्णोर् यथाभवत् पुरा देवान् पराभूय यज्ञम् आदाय राक्षसः
रसातलम् अनुप्राप्तः सिन्धुसेन इति श्रुतः यज्ञे तलम् अनुप्राप्ते निर्यज्ञा ह्य् अभवन् मही
नायं लोको ऽस्ति न परो यज्ञे नष्ट इतीत्वराः सुरास् तम् एव विविशू रसातलम् अनुद्विषम्
नाशक्नुवंस् तु तं जेतुं देवा इन्द्रपुरोगमाः विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन्
राक्षसस्य तु तत् कर्म यज्ञभ्रंशम् अशेषतः ततः प्रोवाच भगवान् वाराहं वपुर् आस्थितः
शङ्खचक्रगदापाणिर् गत्वा चैव रसातलम् आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान्
स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक्
जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् स वराहवपुः श्रीमान् रसातलनिवासिनः
राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् वाराहरूपी भगवान् मखम् आदाय यज्ञभुक्
येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात्
तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः पथस् तस्माद् विनिःसृत्य गङ्गास्रवणम् अभ्यगात्