अंशुमान् इति विख्यातः पुत्रस् तस्यासमञ्जसः आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत्
कपिलं च समाराध्य अंशुमान् अपि बालकः सगराय हयं प्रादात् ततः पूर्णो ऽभवत् क्रतुः
तस्यापि पुत्रस् तेजस्वी दिलीप इति धार्मिकः तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः
पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः
सागराणां तु सर्वेषां निष्कृतिस् तु कथं भवेत् भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक
तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत्
स मुनिस् तु चिरं ध्यात्वा तपसाराध्य शंकरम् जटाजलेन स्वपितॄन् आप्लाव्य नृपसत्तम
ततः कृतार्थो भविता त्वं च ते पितरस् तथा तथा करोमीति मुनिं प्रणम्य पुनर् अब्रवीत्
क्व गच्छे ऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद
कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् तपः कुरु यथाशक्ति ततश् चेप्सितम् आप्स्यसि
तच् छ्रुत्वा स मुनेर् वाक्यं मुनिं नत्वा त्व् अगान् नगम् कैलासं स शुचिर् भूत्वा बालो बालक्रियान्वितः तपसे निश्चयं कृत्वा उवाच स भगीरथः
बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो नाहं किमपि जानामि ततः प्रीतो भव प्रभो
वाग्भिर् मनोभिः कृतिभिः कदाचिन् ममोपकुर्वन्ति हिते रता ये तेभ्यो हितार्थं त्व् इह चामरेश सोमं नमस्यामि सुरादिपूज्यम्
उत्पादितो यैर् अभिवर्धितश् च समानगोत्रश् च समानधर्मा तेषाम् अभीष्टानि शिवः करोतु बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम्
एवं तु ब्रुवतस् तस्य पुरस्ताद् अभवच् छिवः वरेण च्छन्दयानो वै भगीरथम् उवाच ह
यन् न साध्यं सुरगणैर् देयं तत् ते मया ध्रुवम् वदस्व निर्भयो भूत्वा भगीरथ महामते
भगीरथः प्रणम्येशं हृष्टः प्रोवाच शंकरम्
जटास्थितां पितॄणां मे पावनाय सरिद्वराम् ताम् एव देहि देवेश सर्वम् आप्तं ततो भवेत्
महेशो ऽपि विहस्याथ भगीरथम् उवाच ह
दत्ता मयेयं ते पुत्र पुनस् तां स्तुहि सुव्रत
तद् देववचनं श्रुत्वा तदर्थं तु तपो महत् स्तुतिं चकार गङ्गाया भक्त्या प्रयतमानसः
तस्या अपि प्रसादं च प्राप्य बालो ऽप्य् अबालवत् गङ्गां महेश्वरात् प्राप्ताम् आदायागाद् रसातलम्
न्यवेदयत् स मुनये कपिलाय महात्मने यथोदितप्रकारेण गङ्गां संस्थाप्य यत्नतः
प्रदक्षिणम् अथावर्त्य कृताञ्जलिपुटो ऽब्रवीत्
देवि मे पितरः शापात् कपिलस्य महामुनेः प्राप्तास् ते विगतिं मातस् तस्मात् तान् पातुम् अर्हसि
तथेत्य् उक्त्वा सुरनदी सर्वेषाम् उपकारिका लोकानाम् उपकारार्थं पितॄणां पावनाय च
अगस्त्यपीतस्याम्भोधेः पूरणाय विशेषतः स्मरणाद् एव पापानां नाशाय सुरनिम्नगा
भगीरथोदितं चक्रे रसातलतले स्थितान् भस्मीभूतान् नृपसुतान् सागरांश् च विशेषतः
विनिर्दग्धान् अथाप्लाव्य खातपूरम् अथाकरोत् ततो मेरुं समाप्लाव्य स्थितां बालो ऽब्रवीन् नृपः
कर्मभूमौ त्वया भाव्यं तथेत्य् आगाद् धिमालयम् हिमवत्पर्वतात् पुण्याद् भारतं वर्षम् अभ्यगात्