कपिलो ऽपि महाप्राज्ञस् तत्र शेते रसातले पुरा च साधितं तेन देवानां कार्यम् उत्तमम्
विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ
रसातलं ददुस् तस्मै पुनर् आह सुरान् मुनिः यो माम् उत्थापयेन् मन्दो भस्मी भूयाच् च सत्वरम्
ततः शये तलगतो नो चेन् न स्वप्न एव हि तथेत्य् उक्तः सुरगणैस् तत्र शेते रसातले
तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः सागराणां च सर्वेषां वधोपायं प्रचक्रिरे
विना युद्धेन ते भीता राक्षसाः सत्वरास् तदा आगत्य यत्र स मुनिः कपिलः कोपनो महान्
शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः दूरे स्थित्वा मौनिनश् च प्रेक्षन्तः किं भवेद् इति
ततस् तु सागराः सर्वे निर्विशन्तो रसातलम् ददृशुस् ते हयं बद्धं शयानं पुरुषं तथा
तं मेनिरे च हर्तारं क्रतुहन्तारम् एव च एनं हत्वा महापापं नयामो ऽश्वं नृपान्तिकम्
केचिद् ऊचुः पशुं बद्धं नयामो ऽनेन किं फलम् तदाहुर् अपरे शूरा राजानः शासका वयम्
उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा ते तं जघ्नुर् मुनिं पादैर् ब्रुवन्तो निष्ठुराणि च
ततः कोपेन महता कपिलो मुनिसत्तमः सागरान् ईक्षयाम् आस तान् कोपाद् भस्मसात् करोत्
जज्वलुस् ते ततस् तत्र सागराः सर्व एव हि तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः
नारदः कथयाम् आस सगराय महात्मने कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम्
राक्षसानां तु विकृतिं सागराणां च नाशनम् ततश् चिन्तापरो राजा कर्तव्यं नावबुध्यत
अपरो ऽपि सुतश् चासीद् असमञ्जा इति श्रुतः स तु बालांस् तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि
सगरो ऽप्य् अथ विज्ञप्तः पौरैः संमिलितैस् तदा दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धो ऽब्रवीन् नृपः
स्वान् अमात्यांस् तदा राजा देशत्यागं करोत्व् अयम् असमञ्जाः क्षत्रधर्मत्यागी वै बालघातकः
सगरस्य तु तद् वाक्यं श्रुत्वामात्यास् त्वरान्विताः तत्यजुर् नृपतेः पुत्रम् असमञ्जा गतो वनम्
सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले एको ऽपि च वनं प्राप्त इदानीं का गतिर् मम
अंशुमान् इति विख्यातः पुत्रस् तस्यासमञ्जसः आनाय्य बालकं राजा कार्यं तस्मै न्यवेदयत्
कपिलं च समाराध्य अंशुमान् अपि बालकः सगराय हयं प्रादात् ततः पूर्णो ऽभवत् क्रतुः
तस्यापि पुत्रस् तेजस्वी दिलीप इति धार्मिकः तस्यापि पुत्रो मतिमान् भगीरथ इति श्रुतः
पितामहानां सर्वेषां गतिं श्रुत्वा सुदुःखितः सगरं नृपशार्दूलं पप्रच्छ विनयान्वितः
सागराणां तु सर्वेषां निष्कृतिस् तु कथं भवेत् भगीरथं नृपः प्राह कपिलो वेत्ति पुत्रक
तस्य तद् वचनं श्रुत्वा बालः प्रायाद् रसातलम् कपिलं च नमस्कृत्वा सर्वं तस्मै न्यवेदयत्
स मुनिस् तु चिरं ध्यात्वा तपसाराध्य शंकरम् जटाजलेन स्वपितॄन् आप्लाव्य नृपसत्तम
ततः कृतार्थो भविता त्वं च ते पितरस् तथा तथा करोमीति मुनिं प्रणम्य पुनर् अब्रवीत्
क्व गच्छे ऽहं मुनिश्रेष्ठ कर्तव्यं चापि तद् वद
कैलासं तं नरश्रेष्ठ गत्वा स्तुहि महेश्वरम् तपः कुरु यथाशक्ति ततश् चेप्सितम् आप्स्यसि