प्रोक्षितं तद् धयं नीत्वा ते रसातलम् आगमन् राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः
न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः इतश् चेतश् चरन्तस् ते नैवापश्यन् हयं तदा
देवलोकं तदा जग्मुः पर्वतांश् च सरांसि च वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा
कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः अदृष्ट्वा तु पशुं रम्यं राजा चिन्ताम् उपेयिवान्
अटन्तः सागराः सर्वे देवलोकम् उपागमन् हयं तम् अनुचिन्वन्तस् तत्रापि न हयो ऽभवत्
ततो महीं समाजग्मुः पर्वतांश् च वनानि च तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः
एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा रसातले हयो बद्ध आस्ते नान्यत्र सागराः
इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् अखनन् पृथिवीं सर्वां परितः सागरास् ततः
ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस् त्व् अहर्निशम् न्यखनंश् चापि जग्मुश् च सत्वरास् ते रसातलम्
तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् श्रुत्वा रक्षांसि संत्रस्ता व्यगमन् कपिलान्तिकम्
कपिलो ऽपि महाप्राज्ञस् तत्र शेते रसातले पुरा च साधितं तेन देवानां कार्यम् उत्तमम्
विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ
रसातलं ददुस् तस्मै पुनर् आह सुरान् मुनिः यो माम् उत्थापयेन् मन्दो भस्मी भूयाच् च सत्वरम्
ततः शये तलगतो नो चेन् न स्वप्न एव हि तथेत्य् उक्तः सुरगणैस् तत्र शेते रसातले
तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः सागराणां च सर्वेषां वधोपायं प्रचक्रिरे
विना युद्धेन ते भीता राक्षसाः सत्वरास् तदा आगत्य यत्र स मुनिः कपिलः कोपनो महान्
शिरोदेशे हयं ते वै बद्ध्वाथ त्वरयान्विताः दूरे स्थित्वा मौनिनश् च प्रेक्षन्तः किं भवेद् इति
ततस् तु सागराः सर्वे निर्विशन्तो रसातलम् ददृशुस् ते हयं बद्धं शयानं पुरुषं तथा
तं मेनिरे च हर्तारं क्रतुहन्तारम् एव च एनं हत्वा महापापं नयामो ऽश्वं नृपान्तिकम्
केचिद् ऊचुः पशुं बद्धं नयामो ऽनेन किं फलम् तदाहुर् अपरे शूरा राजानः शासका वयम्
उत्थाप्यैनं महापापं हन्मः क्षात्रेण वर्चसा ते तं जघ्नुर् मुनिं पादैर् ब्रुवन्तो निष्ठुराणि च
ततः कोपेन महता कपिलो मुनिसत्तमः सागरान् ईक्षयाम् आस तान् कोपाद् भस्मसात् करोत्
जज्वलुस् ते ततस् तत्र सागराः सर्व एव हि तत् तु सर्वं न जानाति दीक्षितः सगरो नृपः
नारदः कथयाम् आस सगराय महात्मने कपिलस्य तु संस्थानं हयस्यापि तु संस्थितिम्
राक्षसानां तु विकृतिं सागराणां च नाशनम् ततश् चिन्तापरो राजा कर्तव्यं नावबुध्यत
अपरो ऽपि सुतश् चासीद् असमञ्जा इति श्रुतः स तु बालांस् तथा पौरान् मौर्ख्यात् क्षिपति चाम्भसि
सगरो ऽप्य् अथ विज्ञप्तः पौरैः संमिलितैस् तदा दुर्नयं तस्य तं ज्ञात्वा ततः क्रुद्धो ऽब्रवीन् नृपः
स्वान् अमात्यांस् तदा राजा देशत्यागं करोत्व् अयम् असमञ्जाः क्षत्रधर्मत्यागी वै बालघातकः
सगरस्य तु तद् वाक्यं श्रुत्वामात्यास् त्वरान्विताः तत्यजुर् नृपतेः पुत्रम् असमञ्जा गतो वनम्
सागरा ब्रह्मशापेन नष्टाः सर्वे रसातले एको ऽपि च वनं प्राप्त इदानीं का गतिर् मम