भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम्
अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत्
त्र्यम्बकश् च इति प्राह गौतमं मुनिभिर् वृतम्
द्विहस्तमात्रे तीर्थानि संभविष्यन्ति गौतम सर्वत्राहं संनिहितः सर्वकामप्रदस् तथा
नर्मदा तु सरिच्छ्रेष्ठा पर्वते ऽमरकण्टके यमुना संगता तत्र प्रभासे तु सरस्वती
कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम्
पयोउष्णी संगता यत्र तत्रत्या तच् च मुक्तिदम् इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया
सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे
सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः तिस्रः कोट्यो ऽर्धकोटी च योजनानां शतद्वये
तीर्थानि मुनिशार्दूल संभविष्यन्ति गौतम इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च
ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी
स्मरणाद् एव पापौघहन्त्री मम सदा प्रिया पञ्चानाम् अपि भूतानाम् आपः श्रेष्ठत्वम् आगताः
तत्रापि तीर्थभूतास् तु तस्माद् आपः पराः स्मृताः तासां भागीरथी श्रेष्ठा ताभ्यो ऽपि गौतमी तथा
आनीता सजटा गङ्गा अस्या नान्यच् छुभावहम् स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने
इत्य् एतत् कथितं पुत्र गौतमाय महात्मने साक्षाद् धरेण तुष्टेन मया तव निवेदितम्
एवं सा गौतमी गङ्गा सर्वेभ्यो ऽप्य् अधिका मता तत्स्वरूपं च कथितं कुतो ऽन्या श्रवणस्पृहा
द्विविधा सैव गदिता एकापि सुरसत्तम एको भेदस् तु कथितो ब्राह्मणेनाहृतो यतः
क्षत्रियेणापरो ऽप्य् अंशो जटास्व् एव व्यवस्थितः भवस्य देवदेवस्य आहृतस् तद् वदस्व मे
वैवस्वतान्वये जात इक्ष्वाकुकुलसंभवः पुरा वै सगरो नाम राजासीद् अतिधार्मिकः
यज्वा दानपरो नित्यं धर्माचारविचारवान् तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम्
तस्य वै संततिर् नाभूद् इति चिन्तापरो ऽभवत् वसिष्ठं गृहम् आहूय संपूज्य विधिवत् ततः
उवाच वचनं राजा संततेः कारणं प्रति इति तद्वचनं श्रुत्वा ध्यात्वा राजानम् अब्रवीत्
सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव
इत्य् उक्त्वा स मुनिर् विप्र यथास्थानं जगाम ह एकदा तस्य राजर्षेर् गृहम् आगात् तपोनिधिः
तस्यर्षेः पूजनं चक्रे स संतुष्टो ऽब्रवीद् वचम् वरं ब्रूहि महाभागेत्य् उक्ते पुत्रान् स चावृणोत्
स मुनिः प्राह राजानम् एकस्यां वंशधारकः पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः
वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः स यज्ञान् सुबहूंश् चक्रे हयमेधान् सुदक्षिणान्
एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे
क्वचिद् अन्तरम् आसाद्य हयं जह्रे शतक्रतुः मार्गमाणाश् च ते पुत्रा नैवापश्यन् हयं तदा
सहस्राणां तथा षष्टिर् नानायुद्धविशारदाः तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि