मर्त्या मर्त्यगताम् एव पश्यन्ति न तलं गताम् नैव स्वर्गगतां मर्त्याः पश्यन्त्य् अज्ञानबुद्धयः
यावत् सागरगा देवी तावद् देवमयी स्मृता उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति
ततो देवर्षिभिर् जुष्टां मातरं जगतः शुभाम् गौतमो मुनिशार्दूलः प्रदक्षिणम् अथाकरोत्
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः उभयोस् तीरयोः स्नानं करोमीति दधे मतिम्
स्मृतमात्रस् तदा तत्राविरासीत् करुणार्णवः तत्र स्नानं कथं सिध्येद् इत्य् एवं शर्वम् अब्रवीत्
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस् त्रिलोचनम्
देवदेव महेशान तीर्थस्नानविधिं मम ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया
महर्षे शृणु सर्वं च विधिं गोदावरीभवम् पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च
ब्राह्मणान् भोजयित्वा च तेषाम् आज्ञां प्रगृह्य च ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते
भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम्
अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत्
त्र्यम्बकश् च इति प्राह गौतमं मुनिभिर् वृतम्
द्विहस्तमात्रे तीर्थानि संभविष्यन्ति गौतम सर्वत्राहं संनिहितः सर्वकामप्रदस् तथा
नर्मदा तु सरिच्छ्रेष्ठा पर्वते ऽमरकण्टके यमुना संगता तत्र प्रभासे तु सरस्वती
कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम्
पयोउष्णी संगता यत्र तत्रत्या तच् च मुक्तिदम् इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया
सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे
सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः तिस्रः कोट्यो ऽर्धकोटी च योजनानां शतद्वये
तीर्थानि मुनिशार्दूल संभविष्यन्ति गौतम इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च
ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी
स्मरणाद् एव पापौघहन्त्री मम सदा प्रिया पञ्चानाम् अपि भूतानाम् आपः श्रेष्ठत्वम् आगताः
तत्रापि तीर्थभूतास् तु तस्माद् आपः पराः स्मृताः तासां भागीरथी श्रेष्ठा ताभ्यो ऽपि गौतमी तथा
आनीता सजटा गङ्गा अस्या नान्यच् छुभावहम् स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने
इत्य् एतत् कथितं पुत्र गौतमाय महात्मने साक्षाद् धरेण तुष्टेन मया तव निवेदितम्
एवं सा गौतमी गङ्गा सर्वेभ्यो ऽप्य् अधिका मता तत्स्वरूपं च कथितं कुतो ऽन्या श्रवणस्पृहा
द्विविधा सैव गदिता एकापि सुरसत्तम एको भेदस् तु कथितो ब्राह्मणेनाहृतो यतः
क्षत्रियेणापरो ऽप्य् अंशो जटास्व् एव व्यवस्थितः भवस्य देवदेवस्य आहृतस् तद् वदस्व मे
वैवस्वतान्वये जात इक्ष्वाकुकुलसंभवः पुरा वै सगरो नाम राजासीद् अतिधार्मिकः
यज्वा दानपरो नित्यं धर्माचारविचारवान् तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम्