यद् अन्यत्र कृतं पुण्यं स्नानदानादिसंयमैः अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर
यत्र यत्र त्व् इयं याति यावत् सागरगामिनी तत्र तत्र त्वया भाव्यम् एष चास्तु वरो वरः
योजनानां तूपरि तु दश यावच् च संख्यया तदन्तरप्रविष्टानां महापातकिनाम् अपि
तत् पितॄणां च तेषां च स्नानायागच्छतां शिव स्नाने चाप्य् अन्तरे मृत्योर् मुक्तिभाजो भवन्तु वै
एकतः सर्वतीर्थानि स्वर्गमर्त्यरसातले एषा तेभ्यो विशिष्टा तु अलं शंभो नमो ऽस्तु ते
तद् गौतमवचः श्रुत्वा तथास्त्व् इत्य् अब्रवीच् छिवः अस्याः परतरं तीर्थं न भूतं न भविष्यति
सत्यं सत्यं पुनः सत्यं वेदे च परिनिष्ठितम् सर्वेषां गौतमी पुण्या इत्य् उक्त्वान्तरधीयत
ततो गते भगवति लोकपूजिते तदाज्ञया पूर्णबलः स गौतमः जटां समादाय सरिद्वरां तां सुरैर् वृतो ब्रह्मगिरिं विवेश
ततस् तु गौतमे प्राप्ते जटाम् आदाय नारद पुष्पवृष्टिर् अभूत् तत्र समाजग्मुः सुरेश्वराः
ऋषयश् च महाभागा ब्राह्मणाः क्षत्रियास् तथा जयशब्देन तं विप्रं पूजयन्तो मुदान्विताः
महेश्वरजटाजुटाद् गङ्गाम् आदाय गौतमः आगत्य ब्रह्मणः पुण्ये ततः किम् अकरोद् गिरौ
आदाय गौतमो गङ्गां शुचिः प्रयतमानसः पूजितो देवगन्धर्वैस् तथा गिरिनिवासिभिः
गिरेर् मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् उवाच प्राञ्जलिर् भूत्वा गङ्गां स द्विजसत्तमः
त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु
एवम् उक्ता गौतमेन गङ्गा प्रोवाच गौतमम् दिव्यरूपधरा देवी दिव्यस्रगनुलेपना
गच्छेयं देवसदनम् अथवापि कमण्डलुम् रसातलं वा गच्छेयं जातस् त्वं सत्यवाग् असि
त्रयाणाम् उपकारार्थं लोकानां याचिता मया शंभुना च तथा दत्ता देवि तन् नान्यथा भवेत्
तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले
स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले रसातले चतुर्धैव सैवं पञ्चदशाकृतिः
सर्वत्र सर्वभूतैव सर्वपापविनाशिनी सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते
मर्त्या मर्त्यगताम् एव पश्यन्ति न तलं गताम् नैव स्वर्गगतां मर्त्याः पश्यन्त्य् अज्ञानबुद्धयः
यावत् सागरगा देवी तावद् देवमयी स्मृता उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति
ततो देवर्षिभिर् जुष्टां मातरं जगतः शुभाम् गौतमो मुनिशार्दूलः प्रदक्षिणम् अथाकरोत्
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः उभयोस् तीरयोः स्नानं करोमीति दधे मतिम्
स्मृतमात्रस् तदा तत्राविरासीत् करुणार्णवः तत्र स्नानं कथं सिध्येद् इत्य् एवं शर्वम् अब्रवीत्
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस् त्रिलोचनम्
देवदेव महेशान तीर्थस्नानविधिं मम ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया
महर्षे शृणु सर्वं च विधिं गोदावरीभवम् पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च
ब्राह्मणान् भोजयित्वा च तेषाम् आज्ञां प्रगृह्य च ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते