यष्टा क्रतुर् यान्य् अपि साधनानि ऋत्विक्प्रदेशं फलदेशकालाः त्वम् एव शंभो परमार्थतत्त्वं वदन्ति यज्ञाङ्गमयं वपुस् ते
कर्ता प्रदाता प्रतिभूः प्रदानं सर्वज्ञसाक्षी पुरुषः परश् च प्रत्यात्मभूतः परमार्थरूपस् त्वम् एव सर्वं किम् उ वाग्विलासैः
न वेदशास्त्रैर् गुरुभिः प्रदिष्टो न नासि बुद्ध्यादिभिर् अप्रधृष्यः अजो ऽप्रमेयः शिवशब्दवाच्यस् त्वम् अस्ति सत्यं भगवन् नमस् ते
आत्मैकतां स्वप्रकृतिं कदाचिद् ऐक्षच् छिवः संपद् इयं ममेति पृथक् तदैवाभवद् अप्रतर्क्य अचिन्त्यप्रभावो बहुविश्वमूर्तिः
भावे ऽभिवृद्धा च भवे भवे च स्वकारणं कारणम् आस्थिता च नित्या शिवा सर्वसुलक्षणा वा विलक्षणा विश्वकरस्य शक्तिः
उत्पादनं संस्थितिर् अन्नवृद्धि लयाः सतां यत्र सनातनास् ते एकैव मूर्तिर् न समस्ति किंचिद् असाध्यम् अस्या दयिता हरस्य
यदर्थम् अन्नानि धनानि जीवा यच्छन्ति कुर्वन्ति तपांसि धर्मान् सापीयम् अम्बा जगतो जनित्री प्रिया तु सोमस्य महासुकीर्तिः
यद् ईक्षितं काङ्क्षति वासवो ऽपि यन्नामतो मङ्गलम् आप्नुयाच् च या व्याप्य विश्वं विमलीकरोति सोमा सदा सोमसमानरूपा
ब्रह्मादिजीवस्य चराचरस्य बुद्ध्यक्षिचैतन्यमनःसुखानि यस्याः प्रसादात् फलवन्ति नित्यं वागीश्वरी लोकगुरोः सुरम्या
चतुर्मुखस्यापि मनो मलीनं किम् अन्यजन्तोर् इति चिन्त्य माता गङ्गावतारं विविधैर् उपायैः सर्वं जगत् पावयितुं चकार
श्रुतीः समालक्ष्य हरप्रभुत्वं विश्वस्य लोकः सकलैः प्रमाणैः कृत्वा च धर्मान् बुभुजे च भोगान् विभूतिर् एषा तु सदाशिवस्य
कार्यक्रियाकारकसाधनानां वेदोदितानाम् अथ लौकिकानाम् यत् साध्यम् उत्कृष्टतमं प्रियं च प्रोक्ता च सा सिद्धिर् अनादिकर्तुः
ध्यात्वा वरं ब्रह्म परं प्रधानं यत् सारभूतं यद् उपासितव्यम् यत् प्राप्य मुक्ता न पुनर् भवन्ति सद्योगिनो मुक्तिर् उमापतिः सः
यथा यथा शंभुर् अमेयमाया रूपाणि धत्ते जगतो हिताय तद्योगयोग्यानि तथैव धत्से पतिव्रतात्वं त्वयि मातर् एवम्
इत्य् एवं स्तुवतस् तस्य पुरस्ताद् वृषभध्वजः उमया सहितः श्रीमान् गणेशादिगणैर् वृतः
साक्षाद् आगत्य तं शंभुः प्रसन्नो वाक्यम् अब्रवीत्
किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः परितुष्टो ऽस्मि याचस्व देवानाम् अपि दुष्करम्
इति श्रुत्वा जगन्मूर्तेर् वाक्यं वाक्यविशारदः हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत्
अहो दैवम् अहो धर्मो ह्य् अहो वै विप्रपूजनम् अहो लोकगतिश् चित्रा अहो धातर् नमो ऽस्तु ते
जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित यदि तुष्टो ऽसि देवेश त्रयीधाम नमो ऽस्तु ते
त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया आत्मनस् तूपकाराय तद् याचस्वाकुतोभयः
स्तोत्रेणानेन ये भक्तास् त्वां च देवीं स्तुवन्ति वै सर्वकामसमृद्धाः स्युर् एतद् धि वरयाम्य् अहम्
एवम् अस्त्व् इति देवेशः परितुष्टो ऽब्रवीद् वचः अन्यान् अपि वरान् मत्तो याचस्व विगतज्वरः
एवम् उक्तस् तु हर्षेण गौतमः प्राह शंकरम्
इमां देवीं जटासंस्थां पावनीं लोकपावनीम् तव प्रियां जगन्नाथ उत्सृज ब्रह्मणो गिरौ
सर्वासां तीर्थभूता तु यावद् गच्छति सागरम् ब्रह्महत्यादिपापानि मनोवाक्कायिकानि च
स्नानमात्रेण सर्वाणि विलयं यान्तु शंकर चन्द्रसूर्योपरागे च अयने विषुवे तथा
संक्रान्तौ वैधृतौ पुण्यतीर्थेष्व् अन्येषु यत् फलम् अस्यास् तु स्मरणाद् एव तत् पुण्यं जायतां हर
श्लाघ्यं कृते तपः प्रोक्तं त्रेतायां यज्ञकर्म च द्वापरे यज्ञदाने च दानम् एव कलौ युगे
युगधर्माश् च ये सर्वे देशधर्मास् तथैव च देशकालादिसंयोगे यो धर्मो यत्र शस्यते