तपसाग्निप्रसादेन देवब्रह्मप्रसादतः भवतां च प्रसादेन मत्संकल्पो ऽनुसिध्यताम्
एवम् अस्त्व् इति तं विप्रा आपृच्छन् मुनिपुंगवम् स्वानि स्थानानि ते जग्मुः समृद्धान्य् अन्नवारिभिः
यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत
गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा गौतमो ऽपि मुनिश्रेष्ठस् तपसा हतकल्मषः
ध्यायंस् तदर्थं स मुनिः किम् इदं मम संस्थितम् इत्य् एवं बहुशो ध्यायञ् ज्ञानेन ज्ञातवान् द्विज
निश्चित्य देवकार्यार्थम् आत्मनः किल्बिषां गतिम् लोकानाम् उपकारं च शंभोः प्रीणनम् एव च
उमायाः प्रीणनं चापि गङ्गानयनम् एव च सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम्
इत्य् एवं मनसा ध्यायन् सुप्रीतो ऽभूद् द्विजोत्तमः आराध्य जगताम् ईशं त्रिनेत्रं वृषभध्वजम्
आनयिष्ये सरिच्छ्रेष्ठां प्रीता ऽस्तु गिरिजा मम सपत्नी जगदम्बाया महेश्वरजटास्थिता
एवं हि संकल्प्य मुनिप्रवीरः स गौतमो ब्रह्मगिरेर् जगाम कैलासम् आधिष्ठितम् उग्रधन्वना सुरार्चितं प्रियया ब्रह्मवृन्दैः
कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः किं चकार तपो वापि कां चक्रे स्तुतिम् उत्तमाम्
गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे
उपविश्य शुचिर् भूत्वा स्तोत्रं चेदं ततो जगौ अपतत् पुष्पवृष्टिश् च स्तूयमाने महेश्वरे
भोगार्थिनां भोगम् अभीप्सितं च दातुं महान्त्य् अष्टवपूंषि धत्ते सोमो जनानां गुणवन्ति नित्यं देवं महादेवम् इति स्तुवन्ति
कर्तुं स्वकीयैर् विषयैः सुखानि भर्तुं समस्तं सचराचरं च संपत्तये ह्य् अस्य विवृद्धये च महीमयं रूपम् इतीश्वरस्य
सृष्टेः स्थितेः संहरणाय भूमेर् आधारम् आधातुम् अपां स्वरूपम् भेजे शिवः शान्ततनुर् जनानां सुखाय धर्माय जगत् प्रतिष्ठितम्
कालव्यवस्थाम् अमृतस्रवं च जीवस्थितिं सृष्टिम् अथो विनाशनम् मुदं प्रजानां सुखम् उन्नतिं च चक्रे ऽर्कचन्द्राग्निमयं शरीरम्
वृद्धिं गतिं शक्तिम् अथाक्षराणि जीवव्यवस्थां मुदम् अप्य् अनेकाम् स्रष्टुं कृतं वायुर् इतीशरूपं त्वं वेत्सि नूनं भगवन् भवन्तम्
भेदैर् विना नैव कृतिर् न धर्मो नात्मीयम् अन्यन् न दिशो ऽन्तरिक्षम् द्यावापृथिव्यौ न च भुक्तिमुक्ती तस्माद् इदं व्योमवपुस् तवेश
धर्मं व्यवस्थापयितुं व्यवस्य ऋक्सामशास्त्राणि यजुश् च शाखाः लोके च गाथाः स्मृतयः पुराणम् इत्यादिशब्दात्मकताम् उपैति
यष्टा क्रतुर् यान्य् अपि साधनानि ऋत्विक्प्रदेशं फलदेशकालाः त्वम् एव शंभो परमार्थतत्त्वं वदन्ति यज्ञाङ्गमयं वपुस् ते
कर्ता प्रदाता प्रतिभूः प्रदानं सर्वज्ञसाक्षी पुरुषः परश् च प्रत्यात्मभूतः परमार्थरूपस् त्वम् एव सर्वं किम् उ वाग्विलासैः
न वेदशास्त्रैर् गुरुभिः प्रदिष्टो न नासि बुद्ध्यादिभिर् अप्रधृष्यः अजो ऽप्रमेयः शिवशब्दवाच्यस् त्वम् अस्ति सत्यं भगवन् नमस् ते
आत्मैकतां स्वप्रकृतिं कदाचिद् ऐक्षच् छिवः संपद् इयं ममेति पृथक् तदैवाभवद् अप्रतर्क्य अचिन्त्यप्रभावो बहुविश्वमूर्तिः
भावे ऽभिवृद्धा च भवे भवे च स्वकारणं कारणम् आस्थिता च नित्या शिवा सर्वसुलक्षणा वा विलक्षणा विश्वकरस्य शक्तिः
उत्पादनं संस्थितिर् अन्नवृद्धि लयाः सतां यत्र सनातनास् ते एकैव मूर्तिर् न समस्ति किंचिद् असाध्यम् अस्या दयिता हरस्य
यदर्थम् अन्नानि धनानि जीवा यच्छन्ति कुर्वन्ति तपांसि धर्मान् सापीयम् अम्बा जगतो जनित्री प्रिया तु सोमस्य महासुकीर्तिः
यद् ईक्षितं काङ्क्षति वासवो ऽपि यन्नामतो मङ्गलम् आप्नुयाच् च या व्याप्य विश्वं विमलीकरोति सोमा सदा सोमसमानरूपा
ब्रह्मादिजीवस्य चराचरस्य बुद्ध्यक्षिचैतन्यमनःसुखानि यस्याः प्रसादात् फलवन्ति नित्यं वागीश्वरी लोकगुरोः सुरम्या
चतुर्मुखस्यापि मनो मलीनं किम् अन्यजन्तोर् इति चिन्त्य माता गङ्गावतारं विविधैर् उपायैः सर्वं जगत् पावयितुं चकार