नरिष्यन्तश् च षष्ठो वै प्रांशू रिष्टश् च सप्तमः करूषश् च पृषध्रश् च नवैते मुनिसत्तमाः
अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः मित्रावरुणयोर् विप्राः पूर्वम् एव महामतिः
अनुत्पन्नेषु बहुषु पुत्रेष्व् एतेषु भो द्विजाः तस्यां च वर्तमानायाम् इष्ट्यां च द्विजसत्तमाः
मित्रावरुणयोर् अंशे मनुर् आहुतिम् आवहत् तत्र दिव्याम्बरधरा दिव्याभरणभूषिता
दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ताम् इलेत्य् एव होवाच मनुर् दण्डधरस् तदा
अनुगच्छस्व मां भद्रे तम् इला प्रत्युवाच ह धर्मयुक्तम् इदं वाक्यं पुत्रकामं प्रजापतिम्
मित्रावरुणयोर् अंशे जातास्मि वदतां वर तयोः सकाशं यास्यामि न मां धर्महतां कुरु
सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इला गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत्
अंशे ऽस्मि युवयोर् जाता देवौ किं करवाणि वाम् मनुना चाहम् उक्ता वाऐ अनुगच्छस्व माम् इति
तौ तथावादिनीं साध्वीम् इलां धर्मपरायणाम् मित्रश् च वरुणश् चोभाव् ऊचतुस् तां द्विजोत्तमाः
अनेन तव धर्मेण प्रश्रयेण दमेन च सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि
आवयोस् त्वं महाभागे ख्यातिं कन्येति यास्यसि
मनोर् वंशकरः पुत्रस् त्वम् एव च भविष्यसि सुद्युम्न इति विख्यातस् त्रिषु लोकेषु शोभने
जगत्प्रियो धर्मशीलो मनोर् वंशविवर्धनः निवृत्ता सा तु तच् छ्रुत्वा गच्छन्ती पितुर् अन्तिकात्
बुधेनान्तरम् आसाद्य मैथुनायोपमन्त्रिता सोमपुत्राद् बुधाद् विप्रास् तस्यां जज्ञे पुरूरवाः
जनयित्वा ततः सा तम् इला सुद्युम्नतां गता सुद्युम्नस्य तु दायादास् त्रयः परमधार्मिकाः
उत्कलश् च गयश् चैव विनताश्वश् च भो द्विजाः उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः
दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता प्रविष्टे तु मनौ विप्रा दिवाकरम् अरिंदमम्
दशधा तत् पुनः क्षत्रम् अकरोत् पृथिवीम् इमाम् इक्ष्वाकुर् ज्येष्ठदायादो मध्यदेशम् अवाप्तवान्
कन्याभावात् तु सुद्युम्नो नैतद् राज्यम् अवाप्तवान् वसिष्ठवचनात् त्व् आसीत् प्रतिष्ठाने महात्मनः
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः
मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर् लक्षणैर् युतः धृतवांस् ताम् इलेत्य् एवं सुद्युम्नेति च विश्रुतः
नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः अम्बरीषो ऽभवत् पुत्रः पार्थिवर्षभसत्तमः
धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः
नाभागधृष्टपुत्राश् च क्षत्रिया वैश्यतां गताः प्रांशोर् एको ऽभवत् पुत्रः प्रजापतिर् इति स्मृतः
नरिष्यन्तस्य दायादो राजा दण्डधरो यमः शर्यातेर् मिथुनं त्व् आसीद् आनर्तो नाम विश्रुतः
पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह आनर्तस्य तु दायादो रैवो नाम महाद्युतिः
आनर्तविषयश् चैव पुरी चास्य कुशस्थली रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः
ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके
मुहूर्तभूतं देवस्य तस्थौ बहुयुगं द्विजाः आजगाम स चैवाथ स्वां पुरीं यादवैर् वृताम्