इदम् एवाश्रमं पुण्यं सर्वेषाम् इति मे मतिः अलम् अन्येन मुनय आश्रमेण गतेन वा
इति श्रुत्वा मुनेर् वाक्यं विघ्नकृत्यम् अनुस्मरन् उवाच प्राञ्जलिर् भूत्वा ब्राह्मणान् स गणाधिपः
अन्नक्रीता वयं किं नो निवारयत गौतमः साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम्
नायम् अर्हति दण्डं वा उपकारी द्विजोत्तमः तस्माद् बुद्ध्या व्यवस्यामि तत् सर्वैर् अनुमन्यताम्
ततः सर्वे द्विजश्रेष्ठाः क्रियताम् इत्य् अनुब्रुवन् एतस्य तूपकाराय लोकानां हितकाम्यया
ब्राह्मणानां च सर्वेषां श्रेयो यत् स्यात् तथा कुरु ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः
क्रियते गुणरूपं यद् गौतमस्य विशेषतः
अनुमान्य द्विजान् सर्वान् पुनः पुनर् उदारधीः स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान् पुनः मातुर् मते स्थितो विद्वाञ् जयां प्राह गणेश्वरः
यथा नान्यो विजानीते तथा कुरु शुभानने गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति
शालीन् खाद विनाश्याथ विकारं कुरु भामिनि कृते प्रहारे हुंकारे प्रेक्षिते चापि किंचन पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च
तथा चकार विजया विघ्नेश्वरमते स्थिता यत्रासीद् गौतमो विप्रो जया गोरूपधारिणी
जगाम शालीन् खादन्ती तां ददर्श स गौतमः गां दृष्ट्वा विकृतां विप्रस् तां तृणेन न्यवारयत्
निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः तस्यां तु पतितायां च हाहाकारो महान् अभूत्
स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् व्यथिता ब्राह्मणाः प्राहुर् विघ्नराजपुरस्कृताः
इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे पुत्रवत् पोषिताः सर्वे पृष्टो ऽसि मुनिपुंगव
इति श्रुत्वा मुनिर् वाक्यं विप्राणां गच्छतां तदा वज्राहत इवासीत् स विप्राणां पुरतो ऽपतत्
तम् ऊचुर् ब्राह्मणाः सर्वे पश्येमां पतितां भुवि रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम्
तीर्थदेवस्वरूपिण्याम् अस्यां गवि विधेर् बलात् पतितायां मुनिश्रेष्ठ गन्तव्यम् अवशिष्यते
चीर्णं व्रतं क्षयं याति यथा वासस् त्वदाश्रमे वयं नान्यधना ब्रह्मन् केवलं तु तपोधनाः
विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः
भवन्त एव शरणं पूतं मां कर्तुम् अर्हथ
ततः प्रोवाच भगवान् विघ्नराड् ब्राह्मणैर् वृतः
नैवेयं म्रियते तत्र नैव जीवति तत्र किम् वदामो ऽस्मिन् सुसंदिग्धे निष्कृतिं गतिम् एव वा
कथम् उत्थास्यतीयं गौर् अथ चास्मिंश् च निष्कृतिम् वक्तुम् अर्हथ तत् सर्वं करिष्ये ऽहम् असंशयम्
सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् एतद् वाक्यम् अथास्माकं प्रमाणं तव गौतम
ब्राह्मणैः प्रेर्यमाणो ऽसौ गौतमेन बलीयसा विघ्नकृद् ब्रह्मवपुषा प्राह सर्वान् इदं वचः
सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् अनुमन्यन्तु मुनयो मद्वाक्यं गौतमो ऽपि च
महेश्वरजटाजूटे ब्रह्मणो ऽव्यक्तजन्मनः कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम
तद् आनयस्व तरसा तपसा नियमेन च तेनाभिषिञ्च गाम् एतां भगवन् भुवम् आश्रिताम् ततो वत्स्यामहे सर्वे पूर्ववत् तव वेश्मनि
इत्य् उक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि तत्रापतत् पुष्पवृष्टिर् जयशब्दो व्यवर्धत ततः कृताञ्जलिर् नम्रो गौतमो वाक्यम् अब्रवीत्