पुनस् तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् अथवा ब्राह्मणैः पुण्यैस् तपोभिर् हतकल्मषैः
तैर् वा जटास्थिता गङ्गा प्रार्थिता भुवम् आप्नुयात्
एतच् छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् भ्रात्रा स्कन्देन जयया संमन्त्र्येह च युज्यते
तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिर् अजायत
द्विर् द्वादश समा मर्त्ये सर्वप्राणिभयावहा ततो विनष्टम् अभवज् जगत् स्थावरजङ्गमम्
विना तु गौतमं पुण्यम् आश्रमं सर्वकामदम् स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा
कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः मन्नामा तत्र विख्यातस् ततो ब्रह्मगिरिः सदा
तम् आश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे
आधयो व्याधयो वापि दुर्भिक्षं वाप्य् अवर्षणम् भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन
तदाश्रमं विनान्यत्र हव्यं वा कव्यम् एव च नास्ति पुत्र तथा दाता होता यष्टा तथैव च
यदैव गौतमो विप्रो ददाति च जुहोति च तदैवाप्य् अयनं स्वर्गे सुराणाम् अपि नान्यतः
देवलोके ऽपि मर्त्ये वा श्रूयते गौतमो मुनिः होता दाता च भोक्ता च स एवेति जना विदुः
तच् छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः गौतमाश्रमम् आपृच्छन्न् आगच्छन्तस् तपोधनाः
तेषां मुनीनां सर्वेषाम् आगतानां स गौतमः शिष्यवत् पुत्रवद् भक्त्या पितृवत् पोषको ऽभवत्
यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् यथानुरूपं सर्वेषां शुश्रूषाम् अकरोन् मुनिः
आज्ञया गौतमस्यासन्न् ओषध्यो लोकमातरः आराधिताः पुनस् तेन ब्रह्मविष्णुमहेश्वराः
जायन्ते च तदौषध्यो लूयन्ते च तदैव हि संपत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात्
सर्वाः समृद्धयस् तस्य संसिध्यन्ते मनोगताः प्रत्यहं वक्ति विनयाद् गौतमस् त्व् आगतान् मुनीन्
पुत्रवच् छिष्यवच् चैव प्रेष्यवत् करवाणि किम् पितृवत् पोषयाम् आस संवत्सरगणान् बहून्
एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिर् आश्रयात् ततो विनायकः प्राह मातरं भ्रातरं जयाम्
देवानां सदने मातर् गीयते गौतमो द्विजः यन् न साध्यं सुरगणैर् गौतमः कृतवान् इति
एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् स विप्रश् चालयेद् एनां मातर् गङ्गां जटागताम्
तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् स एव च्यावयेद् एनां जटास्थां मे पितृप्रियाम्
तत्र नीतिर् विधातव्या तां विप्रो याचयेद् यथा तत्प्रभावात् सरिच्छ्रेष्ठा शिरसो ऽवतरत्य् अपि
इत्य् उक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः
वसन् कतिपयाहःसु गौतमाश्रममण्डले उवाच ब्राह्मणान् सर्वांस् तत्र तत्र च विघ्नराट्
गच्छामः स्वम् अधिष्ठानम् आश्रमाणि शुचीनि च पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम्
इति संमन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः स तान् निवारयाम् आस स्नेहबुद्ध्या मुनीन् पृथक्
कृताञ्जलिः सविनयम् आसध्वम् इह चैव हि युष्मच्चरणशुश्रूषां करोमि मुनिपुंगवाः
शुश्रूषौ पुत्रवन् नित्यं मयि तिष्ठति नोचितम् भवतां भूमिदेवानाम् आश्रमान्तरसेवनम्