शतक्रतोस् तथा प्रादात् सुरराज्यं यथाभवम् एतस्मिन्न् अन्तरे तत्र पदं प्रागात् सुरार्चितम्
द्वितीयं तत् पदं विष्णोः पितुर् मम महामते यत् पदं समनुप्राप्तं गृहं दृष्ट्वाप्य् अचिन्तयम्
किं कृत्यं यच् छुभं मे स्यात् पदे विष्णोः समागते सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात् कमण्डलुः
तद् वारि यत् पुण्यतमं दत्तं च त्रिपुरारिणा वरं वरेण्यं वरदं वरं शान्तिकरं परम्
शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् मातृस्वरूपं लोकानाम् अमृतं भेषजं शुचि
पवित्रं पावनं पूज्यं ज्येष्ठं श्रेष्ठं गुणान्वितम् स्मरणाद् एव लोकानां पावनं किं नु दर्शनात्
तादृग् वारि शुचिर् भूत्वा कल्पये ऽर्घाय मे पितुः इति संचिन्त्य तद् वारि गृहीत्वार्घाय कल्पितम्
विष्णोः पादे तु पतितम् अर्घवारि सुमन्त्रितम् तद् वारि पतितं मेरौ चतुर्धा व्यगमद् भुवम्
पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा दक्षिणे यत् तु पतितं जटाभिः शंकरो मुने
जग्राह पश्चिमे यत् तु पुनः प्रायात् कमण्डलुम् उत्तरे पतितं यत् तु विष्णुर् जग्राह तज् जलम्
पूर्वस्मिन्न् ऋषयो देवा पितरो लोकपालकाः जगृहुः शुभदं वारि तस्माच् छ्रेष्ठं तद् उच्यते
या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः विष्णुपादप्रसूतास् ता ब्रह्मण्या लोकमातरः
महेश्वरजटासंस्थाः पर्वजातशुभोदयाः तासां प्रभावस्मरणात् सर्वकामान् अवाप्नुयात्
कमण्डलुस्थिता देवी महेश्वरजटागता श्रुता देव यथा मर्त्यम् आगता तद् ब्रवीतु मे
महेश्वरजटास्था या आपो देव्यो महामते तासां च द्विविधो भेद आहर्तुर् द्वयकारणात्
एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः
अपरस् तु महाप्राज्ञ क्षत्रियेण बलीयसा आराध्य शंकरं देवं तपोभिर् नियमैस् तथा
भगीरथेन भूपेन आहृतो ऽंशो ऽपरस् तथा एवं द्वैरूप्यम् अभवद् गङ्गाया मुनिसत्तम
महेश्वरजटास्था या हेतुना केन गौतमः आहर्ता क्षत्रियेणापि आहृता केन तद् वद
यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव
यस्मिन् काले सुरेशस्य उमा पत्न्य् अभवत् प्रिया तस्मिन्न् एवाभवद् गङ्गा प्रिया शंभोर् महामते
मम दोषापनोदाय चिन्तयानः शिवस् तदा उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः
रसवृत्तौ स्थितो यस्मान् निर्ममे रसम् उत्तमम् रसिकत्वात् प्रियत्वाच् च स्त्रैणत्वात् पावनत्वतः
सर्वाभ्यो ह्य् अधिकप्रीतिर् गङ्गाभूद् द्विजसत्तम सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे स तु संगोपयाम् आस गङ्गां शंभुर् जटागताम्
शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः
अमर्षेण भवं गोरी प्रेरयस्वेत्य् अभाषत नैवासौ प्रैरयच् छंभू रसिको रसम् उत्तमम्
जटास्व् एव तदा देवीं गोपायन्तं विमृश्य सा विनायकं जयां स्कन्दं रहो वचनम् अब्रवीत्
नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम्
एवं विमृश्य बहुशो गौरी चाह विनायकम्
न देवैर् नासुरैर् यक्षैर् न सिद्धैर् भवतापि च न राजभिर् अथान्यैर् वा न गङ्गां त्यजति प्रभुः