शनैस् तद्देशम् अभ्यागाद् वामनः सामगायनः यज्ञवाटम् अनुप्राप्तो वामनश् चित्रकुण्डलः
प्रशंसमानस् तं यज्ञं वामनं प्रेक्ष्य भार्गवः ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम्
दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम्
जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे
ध्यायन्तं यज्ञपुरुषम् उत्सृजन्तं हविः पृथक् तम् आह भृगुशार्दूलः शुक्रः परमबुद्धिमान्
यो ऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः
शिशुस् त्वां याचितुं प्राप्तो नूनं देवहिताय हि मया च सह संमन्त्र्य पश्चाद् देयं त्वया प्रभो
बलिस् तु भार्गवं प्राह पुरोधसम् अरिंदमः
धन्यो ऽहं मम यज्ञेशो गृहम् आयाति मूर्तिमान् आगत्य याचते किंचित् किं मन्त्र्यम् अवशिष्यते
एवम् उक्त्वा सभार्यो ऽसौ शुक्रेण च पुरोधसा जगाम यत्र विप्रेन्द्रो वामनो ऽदितिनन्दनः
कृताञ्जलिपुटो भूत्वा केनार्थित्वं तद् उच्यताम् वामनो ऽपि तदा प्राह पदत्रयमितां भुवम्
देहि राजेन्द्र नान्येन कार्यम् अस्ति धनेन किम् तथेत्य् उक्त्वा तु कलशान् नानारत्नविभूषितात्
वारिधारां पुरस्कृत्य वामनाय भुवं ददौ पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि
पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ पश्यत्सु दैत्यसंघेषु जयशब्दे प्रवर्तति
शनैस् तु वामनः प्राह स्वस्ति राजन् सुखी भव देहि मे संमितां भूमिं त्रिपदाम् आशु गम्यते
तथेत्य् उवाच दैत्येशो यावत् पश्यति वामनम् यज्ञेशो यज्ञपुरुषश् चन्द्रादित्यौ स्तनान्तरे
यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः अनन्तश् चाच्युतो देवो विक्रान्तो विक्रमाकृतिः तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः
क्रमस्व विष्णो लोकेश यावच्छक्त्या जगन्मय जितं मया सुरेशान सर्वभावेन विश्वकृत्
तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः
दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट्
एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः
कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम्
तृतीयस्य पदस्यात्र स्थानं नास्त्य् असुरेश्वर क्व क्रमिष्ये भुवं देहि बलिं तं हरिर् अब्रवीत् विहस्य बलिर् अप्य् आह सभार्यः स कृताञ्जलिः
त्वया सृष्टं जगत् सर्वं न स्रष्टाहं सुरेश्वर त्वद्दोषाद् अल्पम् अभवत् किं करोमि जगन्मय
तथापि नानृतपूर्वं कदाचिद् वच्मि केशव सत्यवाक्यं च मां कुर्वन् मत्पृष्ठे हि पदं न्यस
ततः प्रसन्नो भगवांस् त्रयीमूर्तिः सुरार्चितः
वरं वृणीष्व भद्रं ते भक्त्या प्रीतो ऽस्मि दैत्यराट्
स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् स तु प्रादात् स्वयं विष्णुः प्रीतः सन् मनसेप्सितम्
रसातलपतित्वं च भावि चेन्द्रपदं पुनः आत्माधिपत्यं च हरिर् अविनाशि यशो विभुः
एवं दत्त्वा बलेः सर्वं ससुतं भार्ययान्वितम् रसातले हरिः स्थाप्य बलिं त्व् अमरवैरिणम्