तस्योन्नतिशरैर् भग्नाः कीर्तिखड्गद्विधाकृताः तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे
ततः संमन्त्रयाम् आसुः कृत्वा मात्सर्यम् अग्रतः तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर अस्मदर्थे भवान् नित्यम् आयुधानि बिभर्ति च
त्वयि नाथे जगन्नाथ अस्माकं दुःखम् ईदृशम् त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति
मनसा कर्मणा वाचा त्वाम् एव शरणं गताः त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि
यजामस् त्वां महायज्ञैर् वदामो वाग्भिर् अच्युत त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि
त्वद्वीर्यम् आश्रिता नित्यं देवाः सेन्द्रपुरोगमाः त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि
स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर् भूत्वा तु रक्षसि संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि
ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि
अनादिस् त्वं जगद्धातर् अनन्तस् त्वं जगद्गुरुः अन्तवन्तम् अमुं शत्रुं कथं दैत्यं नमेमहि
तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यम् ओजसा स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि
इत्य् एतद् एव वचनं श्रुत्वा दैतेयसूदनः उवाच सर्वान् अमरान् देवानां कार्यसिद्धये
मद्भक्तो ऽसौ बलिर् दैत्यो ह्य् अवध्यो ऽसौ सुरासुरैः यथा भवन्तो मत्पोष्यास् तथा पोष्यो बलिर् मम
विना तु संगरं देवा हत्वा राज्यं त्रिविष्टपे बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्य् अहम्
तथेत्य् उक्त्वा सुरगणाः संजग्मुर् दिवम् एव हि भगवान् अपि देवेशो ह्य् अदित्या गर्भम् आविशत्
तस्मिन्न् उत्पद्यमाने तु उत्सवाश् च बभूविरे जातो ऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः
एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः बलिर् बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः
पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना मखे तस्मिन् वर्तमाने यजमाने बलौ तथा
आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि हविर्भागार्थम् आसन्नदेवगन्धर्वपन्नगे
दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् परिपूर्णं पुनः पूर्णम् एवं वाक्ये प्रवर्तति
शनैस् तद्देशम् अभ्यागाद् वामनः सामगायनः यज्ञवाटम् अनुप्राप्तो वामनश् चित्रकुण्डलः
प्रशंसमानस् तं यज्ञं वामनं प्रेक्ष्य भार्गवः ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम्
दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम्
जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे
ध्यायन्तं यज्ञपुरुषम् उत्सृजन्तं हविः पृथक् तम् आह भृगुशार्दूलः शुक्रः परमबुद्धिमान्
यो ऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः
शिशुस् त्वां याचितुं प्राप्तो नूनं देवहिताय हि मया च सह संमन्त्र्य पश्चाद् देयं त्वया प्रभो
बलिस् तु भार्गवं प्राह पुरोधसम् अरिंदमः
धन्यो ऽहं मम यज्ञेशो गृहम् आयाति मूर्तिमान् आगत्य याचते किंचित् किं मन्त्र्यम् अवशिष्यते
एवम् उक्त्वा सभार्यो ऽसौ शुक्रेण च पुरोधसा जगाम यत्र विप्रेन्द्रो वामनो ऽदितिनन्दनः