एवम् उक्त्वा स भगवान् उमया सहितः शिवः ममानुकम्पया चैव लोकानां हितकाम्यया
एतच् चकार लोकेशः शृणु नारद यत्नतः पापिनां पापमोक्षाय भूमिर् आपो भविष्यति
तयोश् च सारसर्वस्वम् आहरिष्यामि पावनम् एवं निश्चित्य भगवांस् तयोः सारं समाहरत्
भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च पावमान्यादिभिः सूक्तैर् अभिमन्त्र्य च यत्नतः
त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा माम् उवाच स लोकेशो गृहाणेमं कमण्डलुम्
आपो वै मातरो देव्यो भूमिर् माता तथापरा स्थित्युत्पत्तिविनाशानां हेतुत्वम् उभयोः स्थितम्
अत्र प्रतिष्ठितो धर्मो ह्य् अत्र यज्ञः सनातनः अत्र भुक्तिश् च मुक्तिश् च स्थावरं जङ्गमं तथा
स्मरणान् मानसं पापं वचनाद् वाचिकं तथा स्नानपानाभिषेकाच् च प्रणश्यत्य् अपि कायिकम्
एतद् एवामृतं लोके नैतस्मात् पावनं परम् मयाभिमन्त्रितं ब्रह्मन् गृहाणेमं कमण्डलुम्
अत्रत्यं वारि यः कश्चित् स्मरेद् अपि पठेद् अपि स सर्वकामान् आप्नोति गृहाणेमं कमण्डलुम्
भूतेभ्यश् चापि पञ्चभ्य आपो भूतं महोदितम् तासाम् उत्कृष्टम् एतस्माद् गृहाणेमं कमण्डलुम्
अत्र यद् वारि शोभिष्ठं पुण्यं पावनम् एव च स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च ब्रह्मन् पापाद् विमोक्ष्यसे
एवम् उक्त्वा महादेवः प्रादान् मम कमण्डलुम् ततः सुरगणाः सर्वे भक्त्या प्रोचुः सुरेश्वरम् आह्लादश् च महांस् तत्र जयशब्दो व्यवर्तत
देवोत्सवे मातुर् अजः पदाग्रं समीक्ष्य पापात् पतितत्वम् आप प्रादात् कृपालुः स्मरणात् पवित्रां गङ्गां पिता पुण्यकमण्डलुस्थाम्
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद
बलिर् नाम महादैत्यो देवारिर् अपराजितः धर्मेण यशसा चैव प्रजासंरक्षणेन च
गुरुभक्त्या च सत्येन वीर्येण च बलेन च त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते
तस्यर्द्धिम् उन्नतां दृष्ट्वा देवाश् चिन्तापरायणाः मिथः समूचुर् अमरा जेष्यामो वै कथं बलिम्
तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् नारयो व्याधयो वापि नाधयो वा कथंचन
अनावृष्टिर् अधर्मो वा नास्तिशब्दो न दुर्जनः स्वप्ने ऽपि नैव दृश्येत बलौ राज्यं प्रशासति
तस्योन्नतिशरैर् भग्नाः कीर्तिखड्गद्विधाकृताः तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे
ततः संमन्त्रयाम् आसुः कृत्वा मात्सर्यम् अग्रतः तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर अस्मदर्थे भवान् नित्यम् आयुधानि बिभर्ति च
त्वयि नाथे जगन्नाथ अस्माकं दुःखम् ईदृशम् त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति
मनसा कर्मणा वाचा त्वाम् एव शरणं गताः त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि
यजामस् त्वां महायज्ञैर् वदामो वाग्भिर् अच्युत त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि
त्वद्वीर्यम् आश्रिता नित्यं देवाः सेन्द्रपुरोगमाः त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि
स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर् भूत्वा तु रक्षसि संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि
ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि
अनादिस् त्वं जगद्धातर् अनन्तस् त्वं जगद्गुरुः अन्तवन्तम् अमुं शत्रुं कथं दैत्यं नमेमहि