स जगाम त्वरा कामो धृतचापो समाधवः रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम्
गृहीत्वा सशरं चापम् इदं तस्य मनो ऽभवत् मया वेध्यस् त्व् अवेध्यो वै शंभुर् लोकगुरुः प्रभुः
त्रैलोक्यजयिनो बाणाः शंभौ मे किं दृढा न वा तेनासौ चाग्निनेत्रेण भस्मशेषस् तदा कृतः
तद् एव कर्म सुदृढम् ईक्षितुं सुरसत्तमाः आजग्मुस् तत्र यद् वृत्तं शृणु विस्मयकारकम्
शंभुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् तावच् च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः तुष्टुवुस् त्रिदशेशानं कृताञ्जलिपुटाः सुराः
तारकाद् भयम् आपन्नं कुरु पत्नीं गिरेः सुताम्
विद्धचित्तो हरो ऽप्य् आशु मेने वाक्यं सुरोदितम् अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा
प्रेषयाम् आसुर् अमरा विवाहाय परस्परम् संबन्धो ऽपि तथाप्य् आसीद् धिमवल्लोकनाथयोः
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते नानावृक्षलताकीर्णे नानाद्विजनिषेविते
नदीनदसरःकूपतडागादिभिर् आवृते देवगन्धर्वयक्षादिसिद्धचारणसेविते
शुभमारुतसंपन्ने हर्षोत्कर्षैककारणे मेरुमन्दरकैलासमैनाकादिनगैर् वृते
वसिष्ठागस्त्यपौलस्त्यलोमशादिभिर् आवृते महोत्सवे वर्तमाने विवाहः समजायत
तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता वज्रमाणिक्यवैदूर्यतन्मयस्तम्भशोभिता
जयालक्ष्मीशुभाक्षान्तिकीर्तिपुष्ट्यादिसंवृता मेरुमन्दरकैलासरैवतैः परिशोभितैः
पूजितो लोकनाथेन विष्णुना प्रभविष्णुना मैनाकः पर्वतश्रेष्ठो रेजे ऽतीव हिरण्मयः
ऋषयो लोकपालाश् च आदित्याः समरुद्गणाः विवाहे वेदिकां चक्रुर् देवदेवस्य शूलिनः
विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी
आभिस् तु शोभितेशान्या विवाहः समजायत समुद्राः सरितो नागा ओषध्यो लोकमातरः
सवनस्पतिबीजाश् च सर्वे तत्र समाययुः भुवः कर्म इला चक्रे ओषध्यस् त्व् अन्नकर्म च
वरुणः पानकर्माणि दानकर्म धनाधिपः अग्निश् चकार तत्रान्नं यच् चेष्टं लोकनाथयोः
तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः वेदाश् च सरहस्या वै गायन्ति च हसन्ति च
नृत्यन्त्य् अप्सरसः सर्वा जगुर् गन्धर्वकिंनराः लाजाधृक् चापि मैनाको बभूव मुनिसत्तम
पुण्याहवाचनं वृत्तम् अन्तर्वेश्मनि नारद वेदिकायाम् उपाविष्टौ दंपती सुरसत्तमौ
प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक हुत्वा लाजांश् च विधिवत् प्रदक्षिणम् अथाकरोत्
अश्मनः स्पर्शहेतोश् च देव्यङ्गुष्ठं करे ऽस्पृशत् विष्णुना प्रेरितः शंभुर् दक्षिणस्य पदस्य च
ताम् अदर्शम् अहं तत्र होमं कुर्वन् हरान्तिके दृष्टे ऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा
लज्जया कलुषीभूतः स्कन्नं वीर्यम् अचूर्णयम् मद्वीर्याच् चूर्णितात् सूक्ष्माद् वालखिल्यास् तु जज्ञिरे
ततो महान् अभूत् तत्र हाहाकारः सुरोदितः लज्जया परिभूतो ऽहं निर्गतस् तु तदासनात्
पश्यत्सु देवसंघेषु तूष्णींभूतेषु नारद गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनम् अब्रवीत्
ब्रह्माणम् आह्वयस्वेह गतपापं करोम्य् अहम् कृतापराधे ऽपि जने सन्तः सकृपमानसाः मोहयन्त्य् अपि विद्वांसं विषयाणाम् इयं स्थितिः