अर्वाग्दशाहाद् यो बालस् तस्मान् मृत्युम् अवाप्स्यति तस्माद् देव न चान्येभ्यस् तत्र नीतिर् विधीयताम्
पुनर् नारायणः प्राह नाहं बलोत्कटः सुराः न मत्तो मदपत्याच् च न देवेभ्यो वधो भवेत्
ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् तस्माद् वधम् अवाप्नोति तारको लोकदारुणः
तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः
तथेत्य् उक्त्वा सुरगणा जग्मुस् ते च नगोत्तमम् हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम्
इदम् ऊचुः सर्व एव सभार्यं तुहिनं गिरिम्
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ बुद्धिः प्रज्ञा धृतिर् मेधा लज्जा पुष्टिः सरस्वती
एवं त्व् अनेकधा लोके या स्थिता लोकपावनी देवानां कार्यसिद्ध्यर्थं युवयोर् गर्भम् आविशत्
समुत्पन्ना जगन्माता शंभोः पत्नी भविष्यति अस्माकं भवतां चापि पालनी च भविष्यति
हिमवान् अपि तद् वाक्यं सुराणाम् अभिनन्द्य च मेना चापि महोत्साहा अस्त्व् इत्य् एवं वचो ऽब्रवीत्
तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता
तां वै प्रोचुः सुरगणा ईशार्थे तप आविश तथा हिमवतः पृष्ठे गौरी तेपे तपो महत्
पुनः संमन्त्रयाम् आसुर् ईशो ध्यायति तां शिवाम् आत्मानं वा तथान्यद् वा न जानीमः कथं भवः
मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः तत्र नीतिर् विधातव्या ततः श्रैष्ठ्यम् अवाप्स्यथ ततः प्राह महाबुद्धिर् वाचस्पतिर् उदारधीः
यस् त्व् अयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः
तेन विद्धस् त्रिनेत्रो ऽपि ईशायां बुद्धिम् आदधेत् परिणेष्यत्य् असौ नूनं तदा तां गिरिजां हरः
जयिनः पञ्चबाणस्य न बाणाः क्वापि कुण्ठिताः तथोढायां जगद्धात्र्यां शंभोः पुत्रो भविष्यति
जातः पुत्रस् त्रिनेत्रस्य तारकं स हनिष्यति वसन्तं च सहायार्थं शोभिष्ठं कुसुमाकरम्
आह्लादनं च मनसा कामायैनं प्रयच्छथ
तथेत्य् उक्त्वा सुरगणा मदनं कुसुमाकरम् प्रेषयाम् आसुर् अव्यग्राः शिवान्तिकम् अरिंदमाः
स जगाम त्वरा कामो धृतचापो समाधवः रत्या च सहितः कामः कर्तुं कर्म सुदुष्करम्
गृहीत्वा सशरं चापम् इदं तस्य मनो ऽभवत् मया वेध्यस् त्व् अवेध्यो वै शंभुर् लोकगुरुः प्रभुः
त्रैलोक्यजयिनो बाणाः शंभौ मे किं दृढा न वा तेनासौ चाग्निनेत्रेण भस्मशेषस् तदा कृतः
तद् एव कर्म सुदृढम् ईक्षितुं सुरसत्तमाः आजग्मुस् तत्र यद् वृत्तं शृणु विस्मयकारकम्
शंभुं दृष्ट्वा सुरगणा यावत् पश्यन्ति मन्मथम् तावच् च भस्मसाद्भूतं कामं दृष्ट्वा भयातुराः तुष्टुवुस् त्रिदशेशानं कृताञ्जलिपुटाः सुराः
तारकाद् भयम् आपन्नं कुरु पत्नीं गिरेः सुताम्
विद्धचित्तो हरो ऽप्य् आशु मेने वाक्यं सुरोदितम् अरुन्धतीं वसिष्ठं च मां तु चक्रधरं तथा
प्रेषयाम् आसुर् अमरा विवाहाय परस्परम् संबन्धो ऽपि तथाप्य् आसीद् धिमवल्लोकनाथयोः
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते नानावृक्षलताकीर्णे नानाद्विजनिषेविते
नदीनदसरःकूपतडागादिभिर् आवृते देवगन्धर्वयक्षादिसिद्धचारणसेविते