तवातितेजसाविष्टम् इदं रूपं न शोभते असहन्ती च संज्ञा सा वने चरति शाड्वले
द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम् श्लाघ्यां योगबलोपेतां योगम् आस्थाय गोपते
अनुकूलं तु ते देव यदि स्यान् मम संमतम् रूपं निर्वर्तयाम्य् अद्य तव कान्तम् अरिंदम
ततो ऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः भ्रमिम् आरोप्य तत् तेजः शातयाम् आस भो द्विजाः
ततो निर्भासितं रूपं तेजसा संहतेन वै कान्तात् कान्ततरं द्रष्टुम् अधिकं शुशुभे तदा
ददर्श योगम् आस्थाय स्वां भार्यां वडवां ततः अधृष्यां सर्वभूतानां तेजसा नियमेन च
वडवावपुषा विप्राश् चरन्तीम् अकुतोभयाम् सो ऽश्वरूपेण भगवांस् तां मुखे समभावयत्
मैथुनाय विचेष्टन्तीं परपुंसो ऽवशङ्कया सा तन् निरवमच् छुक्रं नासिकाभ्यां विवस्वतः
देवौ तस्याम् अजायेताम् अश्विनौ भिषजां वरौ नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् इति
मार्तण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः तां तु रूपेण कान्तेन दर्शयाम् आस भास्करः
सा तु दृष्ट्वैव भर्तारं तुतोष मुनिसत्तमाः यमस् तु कर्मणा तेन भृशं पीडितमानसः
धर्मेण रञ्जयाम् आस धर्मराज इमाः प्रजाः स लेभे कर्मणा तेन शुभेन परमद्युतिः
पितॄणाम् आधिपत्यं च लोकपालत्वम् एव च मनुः प्रजापतिस् त्व् आसीत् सावर्णिः स तपोधनाः
भाव्यः समागते तस्मिन् मनुः सावर्णिके ऽन्तरे मेरुपृष्ठे तपो नित्यम् अद्यापि स चरत्य् उत
भ्राता शनैश्चरस् तस्य ग्रहत्वं स तु लब्धवान् त्वष्टा तु तेजसा तेन विष्णोश् चक्रम् अकल्पयत्
तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया यवीयसी तु साप्य् आसीद् यमी कन्या यशस्विनी
अभवच् च सरिच्छ्रेष्ठा यमुना लोकपावनी मनुर् इत्य् उच्यते लोके सावर्ण इति चोच्यते
द्वितीयो यः सुतस् तस्य मनोर् भ्राता शनैश्चरः ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितः
य इदं जन्म देवानां शृणुयान् नरसत्तमः आपदं प्राप्य मुच्येत प्राप्नुयाच् च महद् यशः
मनोर् वैवस्वतस्यासन् पुत्रा वै नव तत्समाः इक्ष्वाकुश् चैव नाभागो धृष्टः शर्यातिर् एव च
नरिष्यन्तश् च षष्ठो वै प्रांशू रिष्टश् च सप्तमः करूषश् च पृषध्रश् च नवैते मुनिसत्तमाः
अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः मित्रावरुणयोर् विप्राः पूर्वम् एव महामतिः
अनुत्पन्नेषु बहुषु पुत्रेष्व् एतेषु भो द्विजाः तस्यां च वर्तमानायाम् इष्ट्यां च द्विजसत्तमाः
मित्रावरुणयोर् अंशे मनुर् आहुतिम् आवहत् तत्र दिव्याम्बरधरा दिव्याभरणभूषिता
दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ताम् इलेत्य् एव होवाच मनुर् दण्डधरस् तदा
अनुगच्छस्व मां भद्रे तम् इला प्रत्युवाच ह धर्मयुक्तम् इदं वाक्यं पुत्रकामं प्रजापतिम्
मित्रावरुणयोर् अंशे जातास्मि वदतां वर तयोः सकाशं यास्यामि न मां धर्महतां कुरु
सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इला गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत्
अंशे ऽस्मि युवयोर् जाता देवौ किं करवाणि वाम् मनुना चाहम् उक्ता वाऐ अनुगच्छस्व माम् इति
तौ तथावादिनीं साध्वीम् इलां धर्मपरायणाम् मित्रश् च वरुणश् चोभाव् ऊचतुस् तां द्विजोत्तमाः