दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि
आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः
मानुषैः कारितान्य् आहुर् मानुषाणीति नारद एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम
भेदं न कश्चिज् जानाति श्रोतुं युक्तो ऽसि नारद बहवः पण्डितंमन्याः शृण्वन्ति कथयन्ति च सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः
तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
ब्रह्मन् कृतयुगादौ तु उपायो ऽन्यो न विद्यते तीर्थसेवां विना स्वल्पायासेनाभीष्टदायिनीम्
न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित् त्वं नाभिकमले विष्णोः संजातो ऽखिलपूर्वजः
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः
भागीरथी नर्मदा तु यमुना च सरस्वती विशोका च वितस्ता च हिमवत्पर्वताश्रिताः
एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा
हयमूर्धा च लवणो नमुचिः शृङ्गकस् तथा यमः पातालकेतुश् च मयः पुष्कर एव च
एतैर् आवृततीर्थानि आसुराणि शुभानि च प्रभासो भार्गवो ऽगस्तिर् नरनारायणौ तथा
वसिष्ठश् च भरद्वाजो गोतमः कश्यपो मनुः इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद
अम्बरीषो हरिश्चन्द्रो मान्धाता मनुर् एव च कुरुः कनखलश् चैव भद्राश्वः सगरस् तथा
अश्वयूपो नाचिकेता वृषाकपिर् अरिंदमः इत्यादिमानुषैर् विप्र निर्मितानि शुभानि च
यशसः फलभूत्यर्थं निर्मितानीह नारद स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये पुण्यतीर्थानि तान्य् आहुस् तीर्थभेदो मयोदितः
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्य् उक्तम् उत्तमम् तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते
गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिम् अतः शृणु
वर्षाणाम् अयुतात् पूर्वं देवकार्य उपस्थिते तारको बलवान् आसीन् मद्वराद् अतिगर्वितः
देवानां परमैश्वर्यं हृतं तेन बलीयसा ततस् ते शरणं जग्मुर् देवाः सेन्द्रपुरोगमाः
क्षीरोदशायिनं देवं जगतां प्रपितामहम् कृताञ्जलिपुटा देवा विष्णुम् ऊचुर् अनन्यगाः
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन सर्वेश्वर जगद्योने त्रयीमूर्ते नमो ऽस्तु ते
लोकस्रष्टासुरान् हन्ता त्वम् एव जगतां पतिः स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय
त्राता न कोप्य् अस्ति जगत्त्रये ऽपि शरीरिणां सर्वविपद्गतानाम् त्वया विना वारिजपत्त्रनेत्र तापत्रयाणां शरणं न चान्यत्
पिता च माता जगतो ऽखिलस्य त्वम् एव सेवासुलभो ऽसि विष्णो प्रसीद पाहीश महाभयेभ्यो श्मदार्तिहन्ता वद कस् त्वदन्यः
आदिकर्ता वराहस् त्वं मत्स्यः कूर्मस् तथैव च इत्यादिरूपभेदैर् नो रक्षसे भय आगते
हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः कस्मान् न रक्षसे देव अनन्यशरणान् हरे
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः कस्माच् च भयम् आपन्नं तद् ब्रुवन्तु गतज्वराः ततः श्रियः पतिं प्राहुस् तं तारकवधं प्रति
तारकाद् भयम् आपन्नं भीषणं रोमहर्षणम् न युद्धैस् तपसा शापैर् हन्तुं नैव क्षमा वयम्