चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले दैवानि मुनिशार्दूल आसुराण्य् आरुषाणि च
मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः मानुषेभ्यश् च तीर्थेभ्य आर्षं तीर्थम् अनुत्तमम्
आर्षेभ्यश् चैव तीर्थेभ्य आसुरं बहुपुण्यदम् आसुरेभ्यस् तथा पुण्यं दैवं तत् सार्वकामिकम्
ब्रह्मविष्णुशिवैश् चैव निर्मितं दैवम् उच्यते त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः
त्रयाणाम् अपि लोकानां तीर्थं मेध्यम् उदाहृतम् तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम्
जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् कर्मभूमिर् यतः पुत्र तस्मात् तीर्थं तद् उच्यते
तत्रैव यानि तीर्थानि यान्य् उक्तानि मया तव हिमवद्विन्ध्ययोर् मध्ये षण्नद्यो देवसंभवाः
तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः एता द्वादश नद्यस् तु प्राधान्येन प्रकीर्तिताः
अभिसंपूजितं यस्माद् भारतं बहुपुण्यदम् कर्मभूमिर् अतो देवैर् वर्षं तस्मात् प्रकीर्तितम्
आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् आसुरैर् आवृतान्य् आसंस् तद् एवासुरम् उच्यते
दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि
आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः
मानुषैः कारितान्य् आहुर् मानुषाणीति नारद एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम
भेदं न कश्चिज् जानाति श्रोतुं युक्तो ऽसि नारद बहवः पण्डितंमन्याः शृण्वन्ति कथयन्ति च सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः
तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
ब्रह्मन् कृतयुगादौ तु उपायो ऽन्यो न विद्यते तीर्थसेवां विना स्वल्पायासेनाभीष्टदायिनीम्
न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित् त्वं नाभिकमले विष्णोः संजातो ऽखिलपूर्वजः
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः
भागीरथी नर्मदा तु यमुना च सरस्वती विशोका च वितस्ता च हिमवत्पर्वताश्रिताः
एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा
हयमूर्धा च लवणो नमुचिः शृङ्गकस् तथा यमः पातालकेतुश् च मयः पुष्कर एव च
एतैर् आवृततीर्थानि आसुराणि शुभानि च प्रभासो भार्गवो ऽगस्तिर् नरनारायणौ तथा
वसिष्ठश् च भरद्वाजो गोतमः कश्यपो मनुः इत्यादिमुनिजुष्टानि ऋषितीर्थानि नारद
अम्बरीषो हरिश्चन्द्रो मान्धाता मनुर् एव च कुरुः कनखलश् चैव भद्राश्वः सगरस् तथा
अश्वयूपो नाचिकेता वृषाकपिर् अरिंदमः इत्यादिमानुषैर् विप्र निर्मितानि शुभानि च
यशसः फलभूत्यर्थं निर्मितानीह नारद स्वतोउद्भूतानि दैवानि यत्र क्वापि जगत्त्रये पुण्यतीर्थानि तान्य् आहुस् तीर्थभेदो मयोदितः
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्य् उक्तम् उत्तमम् तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते
गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिम् अतः शृणु
वर्षाणाम् अयुतात् पूर्वं देवकार्य उपस्थिते तारको बलवान् आसीन् मद्वराद् अतिगर्वितः