स याति परमं स्थानं यत्र योगेश्वरो हरिः भुक्त्वा भोगान् विचित्रांश् च देवयोषित्समन्वितः
कल्पान्ते पुनर् आगत्य मर्त्यलोके नरोत्तमः जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे
संप्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह
मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात्
मार्जनस्य यथाकाले भागीरथ्याः समागमम् सर्वम् एतन् मया ख्यातं यत् परं श्रोतुम् इच्छथ
इन्द्रद्युम्नस्य माहात्म्यम् एतच् च कथितं मया सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् पुराणं परमं गुह्यं धन्यं संसारमोचनम्
नहि नस् तृप्तिर् अस्तीह शृण्वतां तीर्थविस्तरम् पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम्
इमम् एव पुरा प्रश्नं पृष्टो ऽस्मि द्विजसत्तमाः नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम्
तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते
कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले सर्वेषाम् एव तीर्थानां सर्वदा किं विशिष्यते
चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले दैवानि मुनिशार्दूल आसुराण्य् आरुषाणि च
मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः मानुषेभ्यश् च तीर्थेभ्य आर्षं तीर्थम् अनुत्तमम्
आर्षेभ्यश् चैव तीर्थेभ्य आसुरं बहुपुण्यदम् आसुरेभ्यस् तथा पुण्यं दैवं तत् सार्वकामिकम्
ब्रह्मविष्णुशिवैश् चैव निर्मितं दैवम् उच्यते त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः
त्रयाणाम् अपि लोकानां तीर्थं मेध्यम् उदाहृतम् तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम्
जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् कर्मभूमिर् यतः पुत्र तस्मात् तीर्थं तद् उच्यते
तत्रैव यानि तीर्थानि यान्य् उक्तानि मया तव हिमवद्विन्ध्ययोर् मध्ये षण्नद्यो देवसंभवाः
तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः एता द्वादश नद्यस् तु प्राधान्येन प्रकीर्तिताः
अभिसंपूजितं यस्माद् भारतं बहुपुण्यदम् कर्मभूमिर् अतो देवैर् वर्षं तस्मात् प्रकीर्तितम्
आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् आसुरैर् आवृतान्य् आसंस् तद् एवासुरम् उच्यते
दैवेष्व् एव प्रदेशेषु तपस् तप्त्वा महर्षयः दैवप्रभावात् तपस आर्षाण्य् अपि च तान्य् अपि
आत्मनः श्रेयसे मुक्त्यै पूजायै भूतये ऽथवा आत्मनः फलभूत्यर्थं यशसो ऽवाप्तये पुनः
मानुषैः कारितान्य् आहुर् मानुषाणीति नारद एवं चतुर्विधो भेदस् तीर्थानां मुनिसत्तम
भेदं न कश्चिज् जानाति श्रोतुं युक्तो ऽसि नारद बहवः पण्डितंमन्याः शृण्वन्ति कथयन्ति च सुकृती को ऽपि जानाति वक्तुं श्रोतुं निजैर् गुणैः
तेषां स्वरूपं भेदं च श्रोतुम् इच्छामि तत्त्वतः यच् छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
ब्रह्मन् कृतयुगादौ तु उपायो ऽन्यो न विद्यते तीर्थसेवां विना स्वल्पायासेनाभीष्टदायिनीम्
न त्वया सदृशो धातर् वक्ता ज्ञाताथवा क्वचित् त्वं नाभिकमले विष्णोः संजातो ऽखिलपूर्वजः
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका तापी पयोउष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः
भागीरथी नर्मदा तु यमुना च सरस्वती विशोका च वितस्ता च हिमवत्पर्वताश्रिताः
एता नद्यः पुण्यतमा देवतीर्थान्य् उदाहृताः गयः कोल्लासुरो वृत्रस् त्रिपुरो ह्य् अन्धकस् तथा