ऐरावतो गजेन्द्राणां महर्षीणां भृगुर् यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
उच्चैःश्रवा यथाश्वानां कवीनाम् उशना कविः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
इन्द्रियाणां मनो यद्वद् भूतानाम् अवनी यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
भूषणानां तु सर्वेषां यथा चूडामणिर् द्विजाः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अकारः सर्ववर्णानां गायत्री छन्दसां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
सर्वाङ्गेभ्यो यथा श्रेष्ठम् उत्तमाङ्गं द्विजोत्तमाः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
यथा समस्तविद्यानां मोक्षविद्या परा स्मृता तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
मनुष्याणां यथा राजा धेनूनाम् अपि कामधुक् तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर् यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
झषाणां मकरो यद्वन् मृगाणां मृगराड् यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
वरुणो यादसां यद्वद् यमः संयमिनां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
देवर्षीणां यथा श्रेष्ठो नारदो मुनिसत्तमाः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
धातूनां काञ्चनं यद्वत् पवित्राणां च दक्षिणा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
प्रजापतिर् यथा दक्ष ऋषीणां कश्यपो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
ग्रहाणां भास्करो यद्वन् मन्त्राणां प्रणवो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अश्वमेधस् तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः तथा समस्ततीर्थानां क्षेत्रं च तद् द्विजोत्तमाः
ओषधीनां यथा धान्यं तृणेषु तृणराड् यथा तथा समस्ततीर्थानाम् उत्तमं पुरुषोत्तमम्
यथा समस्ततीर्थानां धर्मः संसारतारकः तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम्
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः जपहोमव्रतानां च तपोदानफलानि च
न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः
सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम्
ब्रह्मविद्यां सकृज् ज्ञात्वा गर्भवासो न विद्यते हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे
संवत्सरम् उपासीत मासमात्रम् अथापि वा तेन जप्तं हुतं तेन तेन तप्तं तपो महत्