वटसागरयोर् मध्ये यः स्मरेत् पुरुषोत्तमम् ते ऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे
ते ऽपि तत्र परं स्थानं यान्ति नास्त्य् अत्र संशयः एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः
बह्वाश्चर्यस् त्वया प्रोक्तो विष्णुलोको जगत्पते नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः
क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः
सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः
अहो मोक्षस्य मार्गो ऽयं देहत्यागस् त्वयोदितः नराणाम् उपकाराय पुरुषाख्ये न संशयः
अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम्
श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् प्रयागपुष्करादीनि क्षेत्राण्य् आयतनानि च
पृथिव्यां सर्वतीर्थानि सरितश् च सरांसि च न तथा तानि सर्वाणि प्रशंससि सुरोत्तम
यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ज्ञातो ऽस्माभिर् अभिप्रायस् तवेदानीं पितामह
येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः
सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् पुरुषाख्यसमं क्षेत्रं नास्त्य् अत्र पृथिवीतले
सन्ति यानि तु तीर्थानि पुण्यान्य् आयतनानि च तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम्
यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
नक्षत्राणां यथा सोमः सरसां सागरो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
वसूनां पावको यद्वद् रुद्राणां शंकरो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
वर्णानां ब्राह्मणो यद्वद् वैनतेयश् च पक्षिणाम् तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
शिखरिणां यथा मेरुः पर्वतानां हिमालयः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
ऐरावतो गजेन्द्राणां महर्षीणां भृगुर् यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
उच्चैःश्रवा यथाश्वानां कवीनाम् उशना कविः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
इन्द्रियाणां मनो यद्वद् भूतानाम् अवनी यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
भूषणानां तु सर्वेषां यथा चूडामणिर् द्विजाः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
अकारः सर्ववर्णानां गायत्री छन्दसां यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्
सर्वाङ्गेभ्यो यथा श्रेष्ठम् उत्तमाङ्गं द्विजोत्तमाः तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम्