तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती बुद्धिर् मतिस् तथा क्षान्तिः सिद्धिमूर्तिस् तथा द्युतिः
गायत्री चैव सावित्री मङ्गला सर्वमङ्गला प्रभा मतिस् तथा कान्तिस् तत्र नारायणी स्थिता
श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा निद्रा रात्रिस् तथा माया तथान्यामरयोषितः
वासुदेवस्य सर्वास् ता भवने संप्रतिष्ठिताः अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम्
घृताची मेनका रम्भा सहजन्या तिलोत्तमा उर्वशी चैव निम्लोचा तथान्या वामना परा
मन्दोदरी च सुभगा विश्वाची विपुलानना भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा
मुनिसंमोहिनी रामा चन्द्रमध्या शुभानना सुकेशी नीलकेशा च तथा मन्मथदीपिनी
अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला क्रतुस्थला वराङ्गी च पूर्वचित्तिस् तथा परा
परावती महारूपा शशिलेखा शुभानना हंसलीलानुगामिन्यो मत्तवारणगामिनी
बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः एताश् चान्या अप्सरसो रूपयौवनगर्विताः
सुमध्याश् चारुवदनाः सर्वालंकारभूषिताः गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः
गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः नृत्यन्त्य् अनुदिनं तत्र यत्रासौ पुरुषोत्तमः
न तत्र रोगो नो ग्लानिर् न मृत्युर् न हिमातपौ न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम्
परमानन्दजननं सर्वकामफलप्रदम् विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः
ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम्
एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः
न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः
ये ऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः
दक्षिणस्योदधेस् तीरे क्षेत्रे परमदुर्लभे दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः
कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे
वटसागरयोर् मध्ये यः स्मरेत् पुरुषोत्तमम् ते ऽपि तत्र नरा यान्ति ये मृताः पुरुषोत्तमे
ते ऽपि तत्र परं स्थानं यान्ति नास्त्य् अत्र संशयः एवं मया मुनिश्रेष्ठा विष्णुलोकः सनातनः सर्वानन्दकरः प्रोक्तो भुक्तिमुक्तिफलप्रदः
बह्वाश्चर्यस् त्वया प्रोक्तो विष्णुलोको जगत्पते नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः
क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः
सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः
अहो मोक्षस्य मार्गो ऽयं देहत्यागस् त्वयोदितः नराणाम् उपकाराय पुरुषाख्ये न संशयः
अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम्
श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् प्रयागपुष्करादीनि क्षेत्राण्य् आयतनानि च
पृथिव्यां सर्वतीर्थानि सरितश् च सरांसि च न तथा तानि सर्वाणि प्रशंससि सुरोत्तम
यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ज्ञातो ऽस्माभिर् अभिप्रायस् तवेदानीं पितामह