कुन्देन्दुरजतप्रख्यं हारगोक्षीरसंनिभम् आदाय तं मुनिश्रेष्ठाः सव्यहस्तेन केशवः
यस्य शब्देन सकलं संक्षोभं जायते जगत् विश्रुतं पाञ्चजन्येति सहस्रावर्तभूषितम्
दुष्कृतान्तकरीं रौद्रां दैत्यदानवनाशिनीम् ज्वलद्वह्निशिखाकारां दुःसहां त्रिदशैर् अपि
कौमोदकीं गदां चासौ धृतवान् दक्षिणे करे वामे विस्फुरति ह्य् अस्य शार्ङ्गं सूर्यसमप्रभम्
शरैर् आदित्यसंकाशैर् ज्वालामालाकुलैर् वरैः यो ऽसौ संहरते देवस् त्रैलोक्यं सचराचरम्
सर्वानन्दकरः श्रीमान् सर्वशास्त्रविशारदः सर्वलोकगुरुर् देवः सर्वैर् देवैर् नमस्कृतः
सहस्रमूर्धा देवेशः सहस्रचरणेक्षणः सहस्राख्यः सहस्राङ्गः सहस्रभुजवान् प्रभुः
सिंहासनगतो देवः पद्मपत्त्रायतेक्षणः विद्युद्विस्पष्टसंकाशो जगन्नाथो जगद्गुरुः
परीतः सुरसिद्धैश् च गन्धर्वाप्सरसां गणैः यक्षविद्याधरैर् नागैर् मुनिसिद्धैः सचारणैः
सुपर्णैर् दानवैर् दैत्यै राक्षसैर् गुह्यकिंनरैः अन्यैर् देवगणैर् दिव्यैः स्तूयमानो विराजते
तत्रस्था सततं कीर्तिः प्रज्ञा मेधा सरस्वती बुद्धिर् मतिस् तथा क्षान्तिः सिद्धिमूर्तिस् तथा द्युतिः
गायत्री चैव सावित्री मङ्गला सर्वमङ्गला प्रभा मतिस् तथा कान्तिस् तत्र नारायणी स्थिता
श्रद्धा च कौशिकी देवी विद्युत् सौदामिनी तथा निद्रा रात्रिस् तथा माया तथान्यामरयोषितः
वासुदेवस्य सर्वास् ता भवने संप्रतिष्ठिताः अथ किं बहुनोक्तेन सर्वं तत्र प्रतिष्ठितम्
घृताची मेनका रम्भा सहजन्या तिलोत्तमा उर्वशी चैव निम्लोचा तथान्या वामना परा
मन्दोदरी च सुभगा विश्वाची विपुलानना भद्राङ्गी चित्रसेना च प्रम्लोचा सुमनोहरा
मुनिसंमोहिनी रामा चन्द्रमध्या शुभानना सुकेशी नीलकेशा च तथा मन्मथदीपिनी
अलम्बुषा मिश्रकेशी तथान्या मुञ्जिकस्थला क्रतुस्थला वराङ्गी च पूर्वचित्तिस् तथा परा
परावती महारूपा शशिलेखा शुभानना हंसलीलानुगामिन्यो मत्तवारणगामिनी
बिम्बौष्ठी नवगर्भा च विख्याताः सुरयोषितः एताश् चान्या अप्सरसो रूपयौवनगर्विताः
सुमध्याश् चारुवदनाः सर्वालंकारभूषिताः गीतमाधुर्यसंयुक्ताः सर्वलक्षणसंयुताः
गीतवाद्ये च कुशलाः सुरगन्धर्वयोषितः नृत्यन्त्य् अनुदिनं तत्र यत्रासौ पुरुषोत्तमः
न तत्र रोगो नो ग्लानिर् न मृत्युर् न हिमातपौ न क्षुत् पिपासा न जरा न वैरूप्यं न चासुखम्
परमानन्दजननं सर्वकामफलप्रदम् विष्णुलोकात् परं लोकं नात्र पश्यामि भो द्विजाः
ये लोकाः स्वर्गलोके तु श्रूयन्ते पुण्यकर्मणाम् विष्णुलोकस्य ते विप्राः कलां नार्हन्ति षोडशीम्
एवं हरेः पुरस्थानं सर्वभोगगुणान्वितम् सर्वसौख्यकरं पुण्यं सर्वाश्चर्यमयं द्विजाः
न तत्र नास्तिका यान्ति पुरुषा विषयात्मकाः न कृतघ्ना न पिशुना नो स्तेना नाजितेन्द्रियाः
ये ऽर्चयन्ति सदा भक्त्या वासुदेवं जगद्गुरुम् ते तत्र वैष्णवा यान्ति विष्णुलोकं न संशयः
दक्षिणस्योदधेस् तीरे क्षेत्रे परमदुर्लभे दृष्ट्वा कृष्णं च रामं च सुभद्रां च द्विजोत्तमाः
कल्पवृक्षसमीपे तु ये त्यजन्ति कलेवरम् ते तत्र मनुजा यान्ति मृता ये पुरुषोत्तमे