चातकैः प्रियपुत्रैश् च जीवंजीवकजातिभिः अन्यैर् दिव्यैर् जलचरैर् विहारमधुरस्वनैः
एवं नानाविधैर् दिव्यैर् नानाश्चर्यसमन्वितैः वृक्षैर् जलाशयैः पुण्यैर् भूषितं सुमनोहरैः
तत्र दिव्यैर् विमानैश् च नानारत्नविभूषितैः कामगैः काञ्चनैः शुभ्रैर् दिव्यगन्धर्वनादितैः
तरुणादित्यसंकाशैर् अप्सरोभिर् अलंकृतैः हेमशय्यासनयुतैर् नानाभोगसमन्वितैः
खेचरैः सपताकैश् च मुक्ताहारावलम्बिभिः नानावर्णैर् असंख्यातैर् जातरूपपरिच्छदैः
नानाकुसुमगन्धाढ्यैश् चन्दनागुरुभूषितैः सुखप्रचारबहुलैर् नानावादित्रनिःस्वनैः
मनोमारुततुल्यैश् च किङ्किणीस्तबकाकुलैः विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः चन्द्राननाभिः कान्ताभिर् योषिद्भिः सुमनोहरैः
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः श्यामावदातवर्णाभिर् मत्तमातङ्गगामिभिः
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः चामरै रुक्मदण्डैश् च नानारत्नविभूषितैः
गीतनृत्यैस् तथा वाद्यैर् मोदमानैर् मदालसैः यक्षविद्याधरैः सिद्धैर् गन्धर्वैर् अप्सरोगणैः
सुरसंघैश् च ऋषिभिः शुशुभे भुवनोत्तमम् तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः
वटराजसमीपे तु दक्षिणस्योदधेस् तटे दृष्टो यैर् भगवान् कृष्णः पुष्कराक्षो जगत्पतिः
क्रीडन्त्य् अप्सरसैः सार्धं यावद् द्यौश् चन्द्रतारकम् प्रतप्तहेमसंकाशा जरामरणवर्जिताः
सर्वदुःखविहीनाश् च तृष्णाग्लानिविवर्जिताः चतुर्भुजा महावीर्या वनमालाविभूषिताः
श्रीवत्सलाञ्छनैर् युक्ताः शङ्खचक्रगदाधराः केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसंनिभाः
केचिन् मरकतप्रख्याः केचिद् वैदूर्यसंनिभाः श्यामवर्णाः कुण्डलिनस् तथान्ये वज्रसंनिभाः
न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः यादृग् भाति हरेर् लोकः सर्वाश्चर्यसमन्वितः
न तत्र पुनरावृत्तिर् गमनाज् जायते द्विजाः प्रभावात् तस्य देवस्य यावद् आभूतसंप्लवम्
विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे
प्रतप्तहेमसंकाशं तरुणादित्यसंनिभम् पुरमध्ये हरेर् भाति मन्दिरं रत्नभूषितम्
अनेकशतसाहस्रैः पताकैः समलंकृतम् योजनायुतविस्तीर्णं हेमप्राकारवेष्टितम्
नानावर्णैर् ध्वजैश् चित्रैः कल्पितैः सुमनोहरैः विभाति शारदो यद्वन् नक्षत्रैः सह चन्द्रमाः
चतुर्द्वारं सुविस्तीर्णं कञ्चुकिभिः सुरक्षितम् पुरसप्तकसंयुक्तं महोत्सेकं मनोहरम्
प्रथमं काञ्चनं तत्र द्वितीयं मरकतैर् युतम् इन्द्रनीलं तृतीयं तु महानीलं ततः परम्
पुरं तु पञ्चमं दीप्तं पद्मरागमयं पुरम् षष्ठं वज्रमयं विप्रा वैदूर्यं सप्तमं पुरम्
नानारत्नमयैर् हेमप्रवालाङ्कुरभूषितैः स्तम्भैर् अद्भुतसंकाशैर् भाति तद् भवनं महत्
दृश्यन्ते तत्र सिद्धाश् च भासयन्ति दिशो दश पौर्णमास्यां सनक्षत्रो यथा भाति निशाकरः
आरूढस् तत्र भगवान् सलक्ष्मीको जनार्दनः पीताम्बरधरः श्यामः श्रीवत्सलक्ष्मसंयुतः
ज्वलत् सुदर्शनं चक्रं घोरं सर्वास्त्रनायकम् दधार दक्षिणे हस्ते सर्वतेजोमयं हरिः