अशोकैः पारिजातैश् च मन्दारैश् चम्पकद्रुमैः मालतीमल्लिकाकुन्दैर् बकुलैर् नागकेसरैः
पुंनागैर् अतिमुक्तैश् च प्रियङ्गुतगरार्जुनैः पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः
नारङ्गैः पनसैर् लोध्रैर् निम्बदाडिमसर्जकैः द्राक्षालकुचखर्जूरैर् मधुकेन्द्रफलैर् द्रुमैः
कपित्थैर् नारिकेरैश् च तालैः श्रीफलसंभवैः कल्पवृक्षैर् असंख्यैश् च वन्यैर् अन्यैः सुशोभनैः
सरलैश् चन्दनैर् नीपैर् देवदारुशुभाञ्जनैः जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः
ताम्बूलपत्त्रनिचयैस् तथा पूगीफलद्रुमैः अन्यैश् च विविधैर् वृक्षैः सर्वर्तुफलशोभितैः
पुष्पैर् नानाविधैश् चैव लतागुच्छसमुद्भवैः नानाजलाशयैः पुण्यैर् नानापक्षिरुतैर् वरैः
दीर्घिकाशतसंघातैस् तोयपूर्णैर् मनोहरैः कुमुदैः शतपत्त्रैश् च पुष्पैः कोकनदैर् वरैः
रक्तनीलोत्पलैः कान्तैः कह्लारैश् च सुगन्धिभिः अन्यैश् च जलजैः पुष्पैर् नानावर्णैः सुशोभनैः
हंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः कोयष्टिकैश् च दात्यूहैः कारण्डवरवाकुलैः
चातकैः प्रियपुत्रैश् च जीवंजीवकजातिभिः अन्यैर् दिव्यैर् जलचरैर् विहारमधुरस्वनैः
एवं नानाविधैर् दिव्यैर् नानाश्चर्यसमन्वितैः वृक्षैर् जलाशयैः पुण्यैर् भूषितं सुमनोहरैः
तत्र दिव्यैर् विमानैश् च नानारत्नविभूषितैः कामगैः काञ्चनैः शुभ्रैर् दिव्यगन्धर्वनादितैः
तरुणादित्यसंकाशैर् अप्सरोभिर् अलंकृतैः हेमशय्यासनयुतैर् नानाभोगसमन्वितैः
खेचरैः सपताकैश् च मुक्ताहारावलम्बिभिः नानावर्णैर् असंख्यातैर् जातरूपपरिच्छदैः
नानाकुसुमगन्धाढ्यैश् चन्दनागुरुभूषितैः सुखप्रचारबहुलैर् नानावादित्रनिःस्वनैः
मनोमारुततुल्यैश् च किङ्किणीस्तबकाकुलैः विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः चन्द्राननाभिः कान्ताभिर् योषिद्भिः सुमनोहरैः
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः श्यामावदातवर्णाभिर् मत्तमातङ्गगामिभिः
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः चामरै रुक्मदण्डैश् च नानारत्नविभूषितैः
गीतनृत्यैस् तथा वाद्यैर् मोदमानैर् मदालसैः यक्षविद्याधरैः सिद्धैर् गन्धर्वैर् अप्सरोगणैः
सुरसंघैश् च ऋषिभिः शुशुभे भुवनोत्तमम् तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः
वटराजसमीपे तु दक्षिणस्योदधेस् तटे दृष्टो यैर् भगवान् कृष्णः पुष्कराक्षो जगत्पतिः
क्रीडन्त्य् अप्सरसैः सार्धं यावद् द्यौश् चन्द्रतारकम् प्रतप्तहेमसंकाशा जरामरणवर्जिताः
सर्वदुःखविहीनाश् च तृष्णाग्लानिविवर्जिताः चतुर्भुजा महावीर्या वनमालाविभूषिताः
श्रीवत्सलाञ्छनैर् युक्ताः शङ्खचक्रगदाधराः केचिन् नीलोत्पलश्यामाः केचित् काञ्चनसंनिभाः
केचिन् मरकतप्रख्याः केचिद् वैदूर्यसंनिभाः श्यामवर्णाः कुण्डलिनस् तथान्ये वज्रसंनिभाः
न तादृक् सर्वदेवानां भान्ति लोका द्विजोत्तमाः यादृग् भाति हरेर् लोकः सर्वाश्चर्यसमन्वितः
न तत्र पुनरावृत्तिर् गमनाज् जायते द्विजाः प्रभावात् तस्य देवस्य यावद् आभूतसंप्लवम्
विचरन्ति पुरे दिव्ये रूपयौवनगर्विताः कृष्णं रामं सुभद्रां च पश्यन्ति पुरुषोत्तमे