उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः युवा महाबलो धीमान् विष्णुलोकं स गच्छति
तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् सिद्धाप्सरोभिर् गन्धर्वैः सुरविद्याधरोरगैः
स्तूयमानो मुनिवरैस् तिष्ठते विगतज्वरः यथा देवो जगन्नाथः शङ्खचक्रगदाधरः
तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह
तदन्ते ब्रह्मसदनम् आयाति सर्वकामदम् सिद्धविद्याधरैश् चापि शोभितं सुरकिंनरैः
कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम्
रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् अनेकशतसाहस्रैर् विमानैः समलंकृतम्
सिद्धविद्याधरैर् यक्षैर् भूषितं दैत्यदानवैः अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः
तदन्ते याति गोलोकं सर्वभोगसमन्वितम् सुरसिद्धाप्सरोभिश् च शोभितं सुमनोहरम्
तत्र सप्ततिकल्पांस् तु भुक्त्वा भोगम् अनुत्तमम् दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः
तस्माद् आगच्छते लोकं प्राजापत्यम् अनुत्तमम् गन्धर्वाप्सरसैः सिद्धैर् मुनिविद्याधरैर् वृतः
षष्टिकल्पान् सुखं तत्र भुक्त्वा नानाविधं मुदा तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम्
गन्धर्वैः किंनरैः सिद्धैः सुरविद्याधरोरगैः गुह्यकाप्सरसैः साध्यैर् वृतैश् चान्यैः सुरोत्तमैः
आगत्य तत्र पञ्चाशत् कल्पान् भुक्त्वा सुखं नरः सुरलोकं ततो गत्वा विमानैः समलंकृतः
चत्वारिंशत् तु कल्पांस् तु भुक्त्वा भोगान् सुदुर्लभान् आगच्छते ततो लोकं नक्षत्राख्यं सुदुर्लभम्
ततो भोगान् वरान् भुङ्क्ते त्रिंशत् कल्पान् यथेप्सितान् तस्माद् आगच्छते लोकं शशाङ्कस्य द्विजोत्तमाः
यत्रासौ तिष्ठते सोमः सर्वैर् देवैर् अलंकृतः तत्र विंशतिकल्पांस् तु भुक्त्वा भोगं सुदुर्लभम्
आदित्यस्य ततो लोकम् आयाति सुरपूजितम् नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम्
तत्र भुक्त्वा शुभान् भोगान् दश कल्पान् द्विजोत्तमाः तस्माद् आयाति भुवनं गन्धर्वाणां सुदुर्लभम्
तत्र भोगान् समस्तांश् च कल्पम् एकं यथासुखम् भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः
चक्रवर्ती महावीर्यो गुणैः सर्वैर् अलंकृतः कृत्वा राज्यं स्वधर्मेण यज्ञैर् इष्ट्वा सुदक्षिणैः
तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसंप्लवम्
तस्माद् आगच्छते चात्र जायते योगिनां कुले प्रवरे वैष्णवे विप्रा दुर्लभे साधुसंमते
चतुर्वेदी विप्रवरो यज्ञैर् इष्ट्वाप्तदक्षिणैः वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
एवं यात्राफलं विप्रा मया सम्यग् उदाहृतम् भुक्तिमुक्तिप्रदं नॄणां किम् अन्यच् छ्रोतुम् इच्छथ
श्रोतुम् इच्छामहे देव विष्णुलोकम् अनामयम् लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम्
प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः
दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः
शृणुध्वं मुनयः सर्वे यत् परं परमं पदम् भक्तानाम् ईहितं धन्यं पुण्यं संसारनाशनम्
प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम्