स्नात्वा सम्यग् विधानेन धौतवासा जितेन्द्रियः स्नापयेत् पूर्ववत् तत्र पूजयेत् पुरुषोत्तमम्
गन्धैः पुष्पैर् उपहारैर् नैवेद्यैर् दीपकैस् तथा उपचारैर् बहुविधैः प्रणिपातैः प्रदक्षिणैः
जाप्यैः स्तुतिनमस्कारैर् गीतवाद्यैर् मनोहरैः संपूज्यैवं जगन्नाथं ब्राह्मणान् पूजयेत् ततः
द्वादशैव तु गास् तेभ्यो दत्त्वा कनकम् एव च छत्त्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः
भक्त्या तु सधनं तेभ्यो दद्याद् वस्त्रादिकं द्विजाः सद्भावेन तु गोविन्दस् तोष्यते पूजितो यतः
आचार्याय ततो दद्याद् गोवस्त्रं कनकं तथा छत्त्रोपानद्युगं चान्यत् कांस्यपात्रं च भक्तितः
ततस् तान् भोजयेद् विप्रान् भोज्यं पायसपूर्वकम् पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्वितम्
ततस् तान् अन्नतृप्तांश् च ब्राह्मणान् स्वस्थमानसान् द्वादशैवोदकुम्भांश् च दद्यात् तेभ्यः समोदकान्
दक्षिणां च यथाशक्त्या दद्यात् तेभ्यो विमत्सरः कुम्भं च दक्षिणां चैव आचार्याय निवेदयेत्
एवं संपूज्य तान् विप्रान् गुरुं ज्ञानप्रदायकम् पूजयेत् परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः
सुवर्णवस्त्रगोधान्यैर् द्रव्यैश् चान्यैर् वरैर् बुधः संपूज्य तं नमस्कृत्य इमं मन्त्रम् उदीरयेत्
सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः
इत्य् उच्चार्य ततो विप्रांस् त्रिः कृत्वा च प्रदक्षिणाम् प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत्
ततस् तान् ब्राह्मणान् भक्त्या चासीमान्तम् अनुव्रजेत् अनुव्रज्य तु तान् सर्वान् नमस्कृत्य निवर्तयेत्
बान्धवैः स्वजनैर् युक्तस् ततो भुञ्जीत वाग्यतः अन्यैश् चोपासकैर् दीनैर् भिक्षुकैश् चान्नकाङ्क्षिभिः
एवं कृत्वा नरः सम्यङ् नारी वा लभते फलम् अश्वमेधसहस्राणां राजसूयशतस्य च
अतीतं शतम् आदाय पुरुषाणां नरोत्तमाः भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक्
सर्वलक्षणसंपन्नः सर्वालंकारभूषितः सर्वकामसमृद्धात्मा देववद् विगतज्वरः
रूपयौवनसंपन्नो गुणैः सर्वैर् अलंकृतः स्तूयमानो ऽप्सरोभिश् च गन्धर्वैः समलंकृतः
विमानेनार्कवर्णेन कामगेन स्थिरेण च पताकाध्वजयुक्तेन सर्वरत्नैर् अलंकृतः
उद्योतयन् दिशः सर्वा आकाशे विगतक्लमः युवा महाबलो धीमान् विष्णुलोकं स गच्छति
तत्र कल्पशतं यावद् भुङ्क्ते भोगान् यथेप्सितान् सिद्धाप्सरोभिर् गन्धर्वैः सुरविद्याधरोरगैः
स्तूयमानो मुनिवरैस् तिष्ठते विगतज्वरः यथा देवो जगन्नाथः शङ्खचक्रगदाधरः
तथासौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् भुक्त्वा तत्र वरान् भोगान् क्रीडां कृत्वा सुरैः सह
तदन्ते ब्रह्मसदनम् आयाति सर्वकामदम् सिद्धविद्याधरैश् चापि शोभितं सुरकिंनरैः
कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः तस्माद् आयाति विप्रेन्द्राः सर्वकामफलप्रदम्
रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् अनेकशतसाहस्रैर् विमानैः समलंकृतम्
सिद्धविद्याधरैर् यक्षैर् भूषितं दैत्यदानवैः अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः
तदन्ते याति गोलोकं सर्वभोगसमन्वितम् सुरसिद्धाप्सरोभिश् च शोभितं सुमनोहरम्
तत्र सप्ततिकल्पांस् तु भुक्त्वा भोगम् अनुत्तमम् दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथामरः