ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः यथोक्तेन विधानेन दश द्वे च समाहितः
प्रतिष्ठां कुरुते यस् तु शाठ्यदम्भविवर्जितः स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम्
श्रोतुम् इच्छामहे देव प्रतिष्ठां वदतस् तव विधानं चार्चनं दानं फलं तत्र जगत्पतेः
शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम्
यात्रा द्वादश संपूर्णा यदा स्यात् तु द्विजोत्तमाः तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम्
ज्येष्ठे मासि सिते पक्षे त्व् एकादश्यां समाहितः गत्वा जलाशयं पुण्यम् आचम्य प्रयतः शुचिः
आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः
यस्य यो विधिर् उद्दिष्ट ऋषिभिः स्नानकर्मणि तेनैव तु विधानेन स्नानं तस्य विधीयते
स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितॄन् संतर्पयेत् तथान्यांश् च नामगोत्रविधानवित्
उत्तीर्य वाससी धौते निर्मले परिधाय वै उपस्पृश्य विधानेन भास्कराभिमुखस् ततः
गायत्रीं पावनीं देवीं मनसा वेदमातरम् सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम्
पुण्यांश् च सौरमन्त्रांश् च श्रद्धया सुसमाहितः त्रिः प्रदक्षिणम् आवृत्य भास्करं प्रणमेत् ततः
वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यम् उदाहृतम् स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम्
ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि
घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् मधुगन्धोदकेनैव तीर्थचन्दनवारिणा
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत्
पूजयेत् परया भक्त्या पद्मैश् च पुरुषोत्तमम् अन्यैश् च वैष्णवैः पुष्पैर् अर्चयेन् मल्लिकादिभिः
संपूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः
गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै
अन्यांश् च दीपकान् दद्याद् द्वादशैव समाहितः घृतेन च मुनिश्रेष्ठास् तिलतैलेन वा पुनः
नैवेद्ये पायसापूपशष्कुलीवटकं तथा मोदकं फाणितं वाल्पं फलानि च निवेदयेत्
एवं पञ्चोपचारेण संपूज्य पुरुषोत्तमम् नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम्
ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् नमस् ते सर्वलोकेश भक्तानाम् अभयप्रद
संसारसागरे मग्नं त्राहि मां पुरुषोत्तम यास् ते मया कृता यात्रा द्वादशैव जगत्पते
प्रसादात् तव गोविन्द संपूर्णास् ता भवन्तु मे एवं प्रसाद्य तं देवं दण्डवत् प्रणिपत्य च
ततो ऽर्चयेद् गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः नानयोर् अन्तरं यस्माद् विद्यते मुनिसत्तमाः
देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः नानापुष्पैर् मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम्
कृत्वावधारणं पश्चाज् जागरं कारयेन् निशि कथां च वासुदेवस्य गीतिकां चापि कारयेत्
ध्यायन् पठन् स्तुवन् देवं प्रणयेद् रजनीं बुधः ततः प्रभाते विमले द्वादश्यां द्वादशैव तु
निमन्त्रयेद् व्रतस्नातान् ब्राह्मणान् वेदपारगान् इतिहासपुराणज्ञाञ् श्रोत्रियान् संयतेन्द्रियान्