सप्तावरान् सप्त परान् वंशान् उद्धृत्य चात्मनः कामगेन विमानेन सर्वरत्नैर् अलंकृतः
गन्धर्वैर् अप्सरोभिश् च सेव्यमानो यथोत्तरैः रूपवान् सुभगः शूरो नरो विष्णुपुरं व्रजेत्
तत्र भुक्त्वा वरान् भोगान् यावद् आभूतसंप्लवम् सर्वकामसमृद्धात्मा जरामरणवर्जितः
पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत् वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
एकैकस्यास् तु यात्रायाः फलं ब्रूहि पृथक् पृथक् यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता
प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः
गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च
संकर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् नरो गच्छेद् विष्णुलोके यावद् इन्द्राश् चतुर्दश
यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः
तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे
ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः यथोक्तेन विधानेन दश द्वे च समाहितः
प्रतिष्ठां कुरुते यस् तु शाठ्यदम्भविवर्जितः स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम्
श्रोतुम् इच्छामहे देव प्रतिष्ठां वदतस् तव विधानं चार्चनं दानं फलं तत्र जगत्पतेः
शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम्
यात्रा द्वादश संपूर्णा यदा स्यात् तु द्विजोत्तमाः तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम्
ज्येष्ठे मासि सिते पक्षे त्व् एकादश्यां समाहितः गत्वा जलाशयं पुण्यम् आचम्य प्रयतः शुचिः
आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः
यस्य यो विधिर् उद्दिष्ट ऋषिभिः स्नानकर्मणि तेनैव तु विधानेन स्नानं तस्य विधीयते
स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितॄन् संतर्पयेत् तथान्यांश् च नामगोत्रविधानवित्
उत्तीर्य वाससी धौते निर्मले परिधाय वै उपस्पृश्य विधानेन भास्कराभिमुखस् ततः
गायत्रीं पावनीं देवीं मनसा वेदमातरम् सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम्
पुण्यांश् च सौरमन्त्रांश् च श्रद्धया सुसमाहितः त्रिः प्रदक्षिणम् आवृत्य भास्करं प्रणमेत् ततः
वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यम् उदाहृतम् स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम्
ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि
घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् मधुगन्धोदकेनैव तीर्थचन्दनवारिणा
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत्
पूजयेत् परया भक्त्या पद्मैश् च पुरुषोत्तमम् अन्यैश् च वैष्णवैः पुष्पैर् अर्चयेन् मल्लिकादिभिः
संपूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः
गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै
अन्यांश् च दीपकान् दद्याद् द्वादशैव समाहितः घृतेन च मुनिश्रेष्ठास् तिलतैलेन वा पुनः