सद्यस् ताः स्नानशेषेण उदकेनाभिषेचिताः प्राप्नुवन्तीप्सितान् कामान् यान् यान् वाञ्छन्ति चेप्सितान्
पुत्रार्थिनी लभेत् पुत्रान् सौभाग्यं च सुखार्थिनी रोगार्ता मुच्यते रोगाद् धनं च धनकाङ्क्षिणी
पुण्यानि यानि तोयानि तिष्ठन्ति धरणीतले तानि स्नानावशेषस्य कलां नार्हन्ति षोडशीम्
तस्मात् स्नानावशेषं यत् कृष्णस्य सलिलं द्विजाः तेनाभिषिञ्चेद् गात्राणि सर्वकामप्रदं हि तत्
स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ब्रह्महत्यादिभिः पापैर् मुच्यन्ते ते न संशयः
शास्त्रेषु यत् फलं प्रोक्तं पृथिव्-यस् त्रिप्रदक्षिणैः दृष्ट्वा नरो लभेत् कृष्णं व्रजन्तं दक्षिणामुखम्
तीर्थयात्राफलं यत् तु पृथिव्यां समुदाहृतम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
बदर्यां यत् फलं प्रोक्तं दृष्ट्वा नारायणं नरम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
गङ्गाद्वारे कुरुक्षेत्रे स्नानदानेन यत् फलम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
प्रयागे च महामाघ्यां यत् फलं समुदाहृतम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
शालग्रामे महाचैत्र्यां स्नानदानेन यत् फलम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
महाभिधानकार्त्तिक्यां पुष्करे यत् फलं स्मृतम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
यत् फलं स्नानदानेन गङ्गासागरसंगमे दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
ग्रस्ते सूर्ये कुरुक्षेत्रे स्नानदानेन यत् फलम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः सारस्वतेषु तीर्थेषु तथान्येषु सरःसु च
यत् फलं स्नानदानेन विधिवत् समुदाहृतम् दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
पुष्करे चाथ तीर्थेषु गये चामरकण्टके नैमिषादिषु तीर्थेषु क्षेत्रेष्व् आयतनेषु च
यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे दृष्ट्वा नरो लभेत् कृष्णं तत् फलं दक्षिणामुखम्
अथ किं पुनर् उक्तेन भाषितेन पुनः पुनः यत् किंचित् कथितं चात्र फलं पुण्यस्य कर्मणः
वेदशास्त्रे पुराणे च भारते च द्विजोत्तमाः धर्मशास्त्रेषु सर्वेषु तथान्यत्र मनीषिभिः
दृष्ट्वा नरो लभेत् कृष्णं तत् फलं सहलायुधम् सकलं भद्रया सार्धं व्रजन्तं दक्षिणामुखम्
गुडिवामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् कृष्णं बलं सुभद्रां च ते यान्ति भवनं हरेः
ये पश्यन्ति तदा कृष्णं सप्ताहं मण्डपे स्थितम् हलिनं च सुभद्रां च विष्णुलोकं व्रजन्ति ते
केन सा निर्मिता यात्रा दक्षिणस्यां जगत्पते यात्राफलं च किं तत्र प्राप्यते ब्रूहि मानवैः
किमर्थं सरसस् तीरे राज्ञस् तस्य जगत्पते पवित्रे विजने देशे गत्वा तत्र च मण्डपे
कृष्णः संकर्षणश् चैव सुभद्रा च रथेन ते स्वस्थानं संपरित्यज्य सप्तरात्रं वसन्ति वै
इन्द्रद्युम्नेन भो विप्राः पुरा वै प्रार्थितो हरिः सप्ताहं सरसस् तीरे मम यात्रा भवत्व् इति
गुडिवा नाम देवेश भुक्तिमुक्तिफलप्रदा तस्मै किल वरं चासौ ददौ स पुरुषोत्तमः
सप्ताहं सरसस् तीरे तव राजन् भविष्यति गुडिवा नाम यात्रा मे सर्वकामफलप्रदा
ये मां तत्रार्चयिष्यन्ति श्रद्धया मण्डपे स्थितम् संकर्षणं सुभद्रां च विधिवत् सुसमाहिताः