तेजस् त्व् अभ्यधिकं तस्य नित्यम् एव विवस्वतः येनातितापयाम् आस त्रींल् लोकान् कश्यपात्मजः
त्रीण्य् अपत्यानि भो विप्राः संज्ञायां तपतां वरः आदित्यो जनयाम् आस कन्यां द्वौ च प्रजापती
मनुर् वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः यमश् च यमुना चैव यमजौ संबभूवतुः
श्यामवर्णं तु तद् रूपं संज्ञा दृष्ट्वा विवस्वतः असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः
मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः
उवाच किं मया कार्यं कथयस्व शुचिस्मिते स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा संभाव्यास् ते न चाख्येयम् इदं भगवते क्वचित्
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् आख्यास्यामि नमस् तुभ्यं गच्छ देवि यथासुखम्
समादिश्य सवर्णां तु तथेत्य् उक्ता तया च सा त्वष्टुः समीपम् अगमद् व्रीडितेव तपस्विनी
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः
आगच्छद् वडवा भूत्वा आच्छाद्य रूपम् अनिन्दिता कुरून् अथोत्तरान् गत्वा तृणान्य् अथ चचार ह
द्वितीयायां तु संज्ञायां संज्ञेयम् इति चिन्तयन् आदित्यो जनयाम् आस पुत्रम् आत्मसमं तदा
पूर्वजस्य मनोर् विप्राः सदृशो ऽयम् इति प्रभुः मनुर् एवाभवन् नाम्ना सावर्ण इति चोच्यते
द्वितीयो यः सुतस् तस्याः स विज्ञेयः शनैश्चरः संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै मनुस् तस्याः क्षमत् तत् तु यमस् तस्या न चक्षमे
स वै रोषाच् च बाल्याच् च भाविनो ऽर्थस्य वानघ पदा संतर्जयाम् आस संज्ञां वैवस्वतो यमः
तं शशाप ततः क्रोधात् सावर्णजननी तदा चरणः पतताम् एष तवेति भृशदुःखिता
यमस् तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् भृशं शापभयोद्विग्नः संज्ञावाक्यैर् विशङ्कितः
शापो ऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै
सेयम् अस्मान् अपास्येह विवस्वन् संबुभूषति तस्यां मयोद्यतः पादो न तु देहे निपातितः
बाल्याद् वा यदि वा लौल्यान् मोहात् तत् क्षन्तुम् अर्हसि शप्तो ऽहम् अस्मि लोकेश जनन्या तपतां वर तव प्रसादाच् चरणो न पतेन् मम गोपते
असंशयं पुत्र महद् भविष्यत्य् अत्र कारणम् येन त्वाम् आविशत् क्रोधो धर्मज्ञं सत्यवादिनम्
न शक्यम् एतन् मिथ्या तु कर्तुं मातृवचस् तव कृमयो मांसम् आदाय यास्यन्त्य् अवनिम् एव च
कृतम् एवं वचस् तथ्यं मातुस् तव भविष्यति शापस्य परिहारेण त्वं च त्रातो भविष्यसि
आदित्यश् चाब्रवीत् संज्ञां किमर्थं तनयेषु वै तुल्येष्व् अभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया
सा तत् परिहरन्ती तु नाचचक्षे विवस्वते स चात्मानं समाधाय योगात् तथ्यम् अपश्यत
तां शप्तुकामो भगवान् नाशपन् मुनिसत्तमाः मूर्धजेषु निजग्राह स तु तां मुनिसत्तमाः
ततः सर्वं यथावृत्तम् आचचक्षे विवस्वते विवस्वान् अथ तच् छ्रुत्वा क्रुद्धस् त्वष्टारम् अभ्यगात्
दृष्ट्वा तु तं यथान्यायम् अर्चयित्वा विभावसुम् निर्दग्धुकामं रोषेण सान्त्वयाम् आस वै तदा