एवं तदा मुनिश्रेष्ठाः कृष्णं रामेण संगतम् स्नापयित्वा सुभद्रां च संस्तुवन्ति मुदान्विताः
जय कृष्ण जगन्नाथ जय संकर्षणानुज जय पद्मपलाशाक्ष जय वाञ्छाफलप्रद
जय मालावृतोरस्क जय चक्रगदाधर जय पद्मालयाकान्त जय विष्णो नमो ऽस्तु ते
एवं स्तुत्वा तदा देवाः शक्राद्या हृष्टमानसाः सिद्धचारणसंघाश् च ये चान्ये स्वर्गवासिनः
मुनयो वालखिल्याश् च कृष्णं रामेण संगतम् सुभद्रां च मुनिश्रेष्ठाः प्रणिपत्याम्बरे स्थिताः
दृष्ट्वा स्तुत्वा नमस्कृत्वा तदा ते त्रिदिवौकसः कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम्
संचरन्ति विमानानि देवानाम् अम्बरे तदा उच्चावचानि दिव्यानि कामगानि स्थिराणि च
दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः
तस्मिन् काले तु ये मर्त्याः पश्यन्ति पुरुषोत्तमम् बलभद्रं सुभद्रां च ते यान्ति पदम् अव्ययम्
सुभद्रारामसहितं मञ्चस्थं पुरुषोत्तमम् दृष्ट्वा निरामयं स्थानं यान्ति नास्त्य् अत्र संशयः
कपिलाशतदानेन यत् फलं पुष्करे स्मृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम् सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः
कन्याशतप्रदानेन यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
सुवर्णशतनिष्काणां दानेन यत् फलं स्मृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
गोसहस्रप्रदानेन यत् फलं परिकीर्तितम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
भूमिदानेन विधिवद् यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
यत् फलं चान्नदानेन अर्घातिथ्येन कीर्तितम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
वृषोत्सर्गेण विधिवद् यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
यत् फलं तोयदानेन ग्रीष्मे वान्यत्र कीर्तितम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
तिलधेनुप्रदानेन यत् फलं संप्रकीर्तितम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
गजाश्वरथदानेन यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
सुवर्णशृङ्गीदानेन यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
जलधेनुप्रदानेन यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
दानेन घृतधेन्वाश् च फलं यत् समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
चान्द्रायणेन चीर्णेन यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
मासोपवासैर् विधिवद् यत् फलं समुदाहृतम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं लभते नरः
अथ किं बहुनोक्तेन भाषितेन पुनः पुनः तस्य देवस्य माहात्म्यं मञ्चस्थस्य द्विजोत्तमाः
यत् फलं सर्वतीर्थेषु व्रतैर् दानैश् च कीर्तितम् तत् फलं कृष्णम् आलोक्य मञ्चस्थं सहलायुधम्
सुभद्रां च मुनिश्रेष्ठाः प्राप्नोति शुभकृन् नरः तस्मान् नरो ऽथवा नारी पश्येत् तं पुरुषोत्तमम्
ततः समस्ततीर्थानां लभेत् स्नानादिकं फलम् स्नानशेषेण कृष्णस्य तोयेनात्माभिषिच्यते
वन्ध्या मृतप्रजा या तु दुर्भगा ग्रहपीडिता राक्षसाद्यैर् गृहीता वा तथा रोगैश् च संहताः