सरत्नकुण्डलैर् दिव्यैः सुवर्णस्तबकान्वितैः चामरै रत्नदण्डैश् च वीज्येते रामकेशवौ
यक्षविद्याधरैः सिद्धैः किंनरैश् चाप्सरोगणैः परिवार्याम्बरगतैर् देवगन्धर्वचारणैः
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः लोकपालास् तथा चान्ये स्तुवन्ति पुरुषोत्तमम्
नमस् ते देवदेवेश पुराण पुरुषोत्तम सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते
त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् तं नमस्यामहे भक्त्या सर्वकामफलप्रदम्
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् सुभद्रां च मुनिश्रेष्ठास् तदाकाशे व्यवस्थिताः
गायन्ति देवगन्धर्वा नृत्यन्त्य् अप्सरसस् तथा देवतूर्याण्य् अवाद्यन्त वाता वान्ति सुशीतलाः
पुष्पमिश्रं तदा मेघा वर्षन्त्य् आकाशगोचराः जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः
शक्राद्या विबुधाः सर्व ऋषयः पितरस् तथा प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः
ततो मङ्गलसंभारैर् विधिमन्त्रपुरस्कृतम् आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः
इन्द्रो विष्णुर् महावीर्यः सूर्याचन्द्रमसौ तथा धाता चैव विधाता च तथा चैवानिलानलौ
पूषा भगो ऽर्यमा त्वष्टा अंशुनैव विवस्वता पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च
रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः विश्वैर् देवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह
गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः देवर्षिभिर् असंख्येयैस् तथा ब्रह्मर्षिभिर् वरैः
वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः भृगुभिश् चाङ्गिरोभिश् च सर्वविद्यासुनिष्ठितैः
सर्वविद्याधरैः पुण्यैर् योगसिद्धिभिर् आवृतः पितामहः पुलस्त्यश् च पुलहश् च महातपाः
अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च
ऋतवश् च ग्रहाश् चैव ज्योतींषि च द्विजोत्तमाः मूर्तिमत्यश् च सरितो देवाश् चैव सनातनाः
समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च पृथिवी द्यौर् दिशश् चैव पादपाश् च द्विजोत्तमाः
अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती उमा शची सिनीवाली तथा चानुमतिः कुहूः
राका च धिषणा चैव पत्न्यश् चान्या दिवौकसाम् हिमवांश् चैव विन्ध्यश् च मेरुश् चानेकशृङ्गवान्
ऐरावतः सानुचरः कलाकाष्ठास् तथैव च मासार्धं मास-ऋतवस् तथा रात्र्यहनी समाः
उच्चैःश्रवा हयश्रेष्ठो नागराजश् च वामनः अरुणो गरुडश् चैव वृक्षाश् चौषधिभिः सह
धर्मश् च भगवान् देवः समाजग्मुर् हि संगताः कालो यमश् च मृत्युश् च यमस्यानुचराश् च ये
बहुलत्वाच् च नोक्ता ये विविधा देवतागणाः ते देवस्याभिषेकार्थं समायान्ति ततस् ततः
गृहीत्वा ते तदा विप्राः सर्वे देवा दिवौकसः आभिषेचनिकं द्रव्यं मङ्गलानि च सर्वशः
दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर् द्विजाः सारस्वतीभिः पुण्याभिर् दिव्यतोयाभिर् एव च
तोयेनाकाशगङ्गायाः कृष्णं रामेण संगतम् सपुष्पैः काञ्चनैः कुम्भैः स्नापयन्त्य् अवनिस्थिताः
संचरन्ति विमानानि देवानाम् अम्बरे तथा उच्चावचानि दिव्यानि कामगानि स्थिराणि च
दिव्यरत्नविचित्राणि सेवितान्य् अप्सरोगणैः गीतैर् वाद्यैः पताकाभिः शोभितानि समन्ततः