तत्र नानाविधैर् वाद्यैः कृष्णं नीलाम्बरं द्विजाः मध्ये सुभद्रां चास्थाप्य जयमङ्गलनिस्वनैः
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् चान्यैश् च जातिभिः अनेकशतसाहस्रैर् वृतं स्त्रीपुरुषैर् द्विजाः
गृहस्थाः स्नातकाश् चैव यतयो ब्रह्मचारिणः स्नापयन्ति तदा कृष्णं मञ्चस्थं सहलायुधम्
तथा समस्ततीर्थानि पूर्वोक्तानि द्विजोत्तमाः स्वोदकैः पुष्पमिश्रैश् च स्नापयन्ति पृथक् पृथक्
पश्चात् पटहशङ्खाद्यैर् भेरीमुरजनिस्वनैः काहलैस् तालशब्दैश् च मृदङ्गैर् झर्झरैस् तथा
अन्यैश् च विविधैर् वाद्यैर् घण्टास्वनविभूषितैः स्त्रीणां मङ्गलशब्दैश् च स्तुतिशब्दैर् मनोहरैः
जयशब्दैस् तथा स्तोत्रैर् वीणावेणुनिनादितैः श्रूयते सुमहाञ् शब्दः सागरस्येव गर्जतः
मुनीनां वेदशब्देन मन्त्रशब्दैस् तथापरैः नानास्तोत्ररवैः पुण्यैः सामशब्दोपबृंहितैः
यतिभिः स्नातकैश् चैव गृहस्थैर् ब्रह्मचारिभिः स्नानकाले सुरश्रेष्ठ स्तुवन्ति परया मुदा
श्यामैर् वेश्याजनैश् चैव कुचभारावनामिभिः पीतरक्ताम्बराभिश् च माल्यदामावनामिभिः
सरत्नकुण्डलैर् दिव्यैः सुवर्णस्तबकान्वितैः चामरै रत्नदण्डैश् च वीज्येते रामकेशवौ
यक्षविद्याधरैः सिद्धैः किंनरैश् चाप्सरोगणैः परिवार्याम्बरगतैर् देवगन्धर्वचारणैः
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः लोकपालास् तथा चान्ये स्तुवन्ति पुरुषोत्तमम्
नमस् ते देवदेवेश पुराण पुरुषोत्तम सर्गस्थित्यन्तकृद् देव लोकनाथ जगत्पते
त्रैलोक्यधारिणं देवं ब्रह्मण्यं मोक्षकारणम् तं नमस्यामहे भक्त्या सर्वकामफलप्रदम्
स्तुत्वैवं विबुधाः कृष्णं रामं चैव महाबलम् सुभद्रां च मुनिश्रेष्ठास् तदाकाशे व्यवस्थिताः
गायन्ति देवगन्धर्वा नृत्यन्त्य् अप्सरसस् तथा देवतूर्याण्य् अवाद्यन्त वाता वान्ति सुशीतलाः
पुष्पमिश्रं तदा मेघा वर्षन्त्य् आकाशगोचराः जयशब्दं च कुर्वन्ति मुनयः सिद्धचारणाः
शक्राद्या विबुधाः सर्व ऋषयः पितरस् तथा प्रजानां पतयो नागा ये चान्ये स्वर्गवासिनः
ततो मङ्गलसंभारैर् विधिमन्त्रपुरस्कृतम् आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः
इन्द्रो विष्णुर् महावीर्यः सूर्याचन्द्रमसौ तथा धाता चैव विधाता च तथा चैवानिलानलौ
पूषा भगो ऽर्यमा त्वष्टा अंशुनैव विवस्वता पत्नीभ्यां सहितो धीमान् मित्रेण वरुणेन च
रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां च वृतः प्रभुः विश्वैर् देवैर् मरुद्भिश् च साध्यैश् च पितृभिः सह
गन्धर्वैर् अप्सरोभिश् च यक्षराक्षसपन्नगैः देवर्षिभिर् असंख्येयैस् तथा ब्रह्मर्षिभिर् वरैः
वैखानसैर् वालखिल्यैर् वाय्वाहारैर् मरीचिपैः भृगुभिश् चाङ्गिरोभिश् च सर्वविद्यासुनिष्ठितैः
सर्वविद्याधरैः पुण्यैर् योगसिद्धिभिर् आवृतः पितामहः पुलस्त्यश् च पुलहश् च महातपाः
अङ्गिराः कश्यपो ऽत्रिश् च मरीचिर् भृगुर् एव च क्रतुर् हरः प्रचेताश् च मनुर् दक्षस् तथैव च
ऋतवश् च ग्रहाश् चैव ज्योतींषि च द्विजोत्तमाः मूर्तिमत्यश् च सरितो देवाश् चैव सनातनाः
समुद्राश् च ह्रदाश् चैव तीर्थानि विविधानि च पृथिवी द्यौर् दिशश् चैव पादपाश् च द्विजोत्तमाः
अदितिर् देवमाता च ह्रीः श्रीः स्वाहा सरस्वती उमा शची सिनीवाली तथा चानुमतिः कुहूः