नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् वैशाखस्यासिते पक्षे स यात्य् अच्युतमन्दिरम्
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः प्रयत्नेन तदा मर्त्यैर् गन्तव्यं पुरुषोत्तमम्
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम्
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे
कोकामुखे शूकरे च मथुरायां मरुस्थले शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे
पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे
लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने कामालये कोटितीर्थे तथा चामरकण्टके
लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके
एकाम्रके च केदारे काश्यां च विरजे द्विजाः कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः
वितस्ता चन्द्रभागा च शतद्रुर् बाहुदा तथा ऋषिकुल्या कुमारी च विपाशा च दृषद्वती
शरयूर् नाकगङ्गा च गण्डकी च महानदी कौशिकी करतोया च त्रिस्रोता मधुवाहिनी
महानदी वैतरणी याश् चान्या नानुकीर्तिताः अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः
पृथिव्यां सर्वतीर्थेषु सर्वेष्व् आयतनेषु च सागरेषु च शैलेषु नदीषु च सरःसु च
यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे तत् फलं कृष्णम् आलोक्य महाज्यैष्ठ्यां लभेन् नरः
तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः
दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह विष्णुलोकं नरो याति समुद्धृत्य समं कुलम्
भुक्त्वा तत्र वरान् भोगान् यावद् आभूतसंप्लवम् पुण्यक्षयाद् इहागत्य चतुर्वेदी द्विजो भवेत्
स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
कस्मिन् काले भवेत् स्नानं कृष्णस्य कमलोद्भव विधिना केन तद् ब्रूहि ततो विधिविदां वर
शृणुध्वं मुनयः स्नानं कृष्णस्य वदतो मम रामस्य च सुभद्रायाः पुण्यं सर्वाघनाशनम्
मासि ज्येष्ठे च संप्राप्ते नक्षत्रे चन्द्रदैवते पौर्णमास्यां तदा स्नानं सर्वकालं हरेर् द्विजाः
सर्वतीर्थमयः कूपस् तत्रास्ते निर्मलः शुचिः तदा भोगवती तत्र प्रत्यक्षा भवति द्विजाः
तस्माज् ज्यैष्ठ्यां समुद्धृत्य हैमाढ्यैः कलशैर् जलम् कृष्णरामाभिषेकार्थं सुभद्रायाश् च भो द्विजाः
कृत्वा सुशोभनं मञ्चं पताकाभिर् अलंकृतम् सुदृढं सुखसंचारं वस्त्रैः पुष्पैर् अलंकृतम्
विस्तीर्णं धूपितं धूपैः स्नानार्थं रामकृष्णयोः सितवस्त्रपरिच्छन्नं मुक्ताहारावलम्बितम्