मासान् अन्यान् परित्यज्य माघादीन् प्रपितामह प्रशंससि कथं ज्येष्ठं ब्रूहि तत्कारणं प्रभो
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ज्येष्ठं मासं यथा तेभ्यः प्रशंसामि पुनः पुनः
पृथिव्यां यानि तीर्थानि सरितश् च सरांसि च पुष्करिण्यस् तडागानि वाप्यः कूपास् तथा ह्रदाः
नानानद्यः समुद्राश् च सप्ताहं पुरुषोत्तमे ज्येष्ठशुक्लदशम्यादि प्रत्यक्षं यान्ति सर्वदा
स्नानदानादिकं तस्माद् देवताप्रेक्षणं द्विजाः यत् किंचित् क्रियते तत्र तस्मिन् काले ऽक्षयं भवेत्
शुक्लपक्षस्य दशमी ज्येष्ठे मासि द्विजोत्तमाः हरते दश पापानि तस्माद् दशहरा स्मृता
यस् तस्यां हलिनं कृष्णं पश्येद् भद्रां सुसंयतः सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन् नरः
उत्तरे दक्षिणे विप्रास् त्व् अयने पुरुषोत्तमम् दृष्ट्वा रामं सुभद्रां च विष्णुलोकं व्रजेन् नरः
नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् फाल्गुन्यां प्रयतो भूत्वा गोविन्दस्य पुरं व्रजेत्
विषुवद्दिवसे प्राप्ते पञ्चतीर्थीं विधानतः कृत्वा संकर्षणं कृष्णं दृष्ट्वा भद्रां च भो द्विजाः
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् विमुक्तः सर्वपापेभ्यो विष्णुलोकं च गच्छति
यः पश्यति तृतीयायां कृष्णं चन्दनरूषितम् वैशाखस्यासिते पक्षे स यात्य् अच्युतमन्दिरम्
ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां यः पश्येत् पुरुषोत्तमम् कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
यदा भवेन् महाज्यैष्ठी राशिनक्षत्रयोगतः प्रयत्नेन तदा मर्त्यैर् गन्तव्यं पुरुषोत्तमम्
कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः नरो द्वादशयात्रायाः फलं प्राप्नोति चाधिकम्
प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे
कोकामुखे शूकरे च मथुरायां मरुस्थले शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे
पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः शङ्खोद्धारे द्वारकायां तथा बदरिकाश्रमे
लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने कामालये कोटितीर्थे तथा चामरकण्टके
लोहार्गले जम्बुमार्गे सोमतीर्थे पृथूदके उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके
एकाम्रके च केदारे काश्यां च विरजे द्विजाः कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने
महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा
गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु
गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा तापी पयोउष्णी कावेरी शिप्रा चर्मण्वती द्विजाः
वितस्ता चन्द्रभागा च शतद्रुर् बाहुदा तथा ऋषिकुल्या कुमारी च विपाशा च दृषद्वती
शरयूर् नाकगङ्गा च गण्डकी च महानदी कौशिकी करतोया च त्रिस्रोता मधुवाहिनी
महानदी वैतरणी याश् चान्या नानुकीर्तिताः अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः
पृथिव्यां सर्वतीर्थेषु सर्वेष्व् आयतनेषु च सागरेषु च शैलेषु नदीषु च सरःसु च
यत् फलं स्नानदानेन राहुग्रस्ते दिवाकरे तत् फलं कृष्णम् आलोक्य महाज्यैष्ठ्यां लभेन् नरः
तस्मात् सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे महाज्यैष्ठ्यां मुनिश्रेष्ठा सर्वकामफलेप्सुभिः