पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते तत्र भूतानि सर्वाणि दग्धान्य् आदित्यरश्मिभिः
ब्रह्माणम् अग्रतः कृत्वा सहादित्यगणैर् द्विजाः प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम्
स्रष्टारं सर्वभूतानां कल्पान्तेषु पुनः पुनः अव्यक्तः शाश्वतो देवस् तस्य सर्वम् इदं जगत्
अत्र वः कीर्तयिष्यामि मनोर् वैवस्वतस्य वै विसर्गं मुनिशार्दूलाः सांप्रतस्य महाद्युतेः
अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् यत्रोत्पन्नो महात्मा स हरिर् वृष्णिकुले प्रभुः
विवस्वान् कश्यपाज् जज्ञे दाक्षायण्यां द्विजोत्तमाः तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः
सुरेश्वरीति विख्याता त्रिषु लोकेषु भाविनी सा वै भार्या भगवतो मार्तण्डस्य महात्मनः
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी संज्ञा नाम सुतपसा सुदीप्तेन समन्विता
आदित्यस्य हि तद् रूपं मण्डलस्य सुतेजसा गात्रेषु परिदग्धं वै नातिकान्तम् इवाभवत्
न खल्व् अयं मृतो ऽण्डस्य इति स्नेहाद् अभाषत अजानन् काश्यपस् तस्मान् मार्तण्ड इति चोच्यते
तेजस् त्व् अभ्यधिकं तस्य नित्यम् एव विवस्वतः येनातितापयाम् आस त्रींल् लोकान् कश्यपात्मजः
त्रीण्य् अपत्यानि भो विप्राः संज्ञायां तपतां वरः आदित्यो जनयाम् आस कन्यां द्वौ च प्रजापती
मनुर् वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः यमश् च यमुना चैव यमजौ संबभूवतुः
श्यामवर्णं तु तद् रूपं संज्ञा दृष्ट्वा विवस्वतः असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः
मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः
उवाच किं मया कार्यं कथयस्व शुचिस्मिते स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा संभाव्यास् ते न चाख्येयम् इदं भगवते क्वचित्
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित् आख्यास्यामि नमस् तुभ्यं गच्छ देवि यथासुखम्
समादिश्य सवर्णां तु तथेत्य् उक्ता तया च सा त्वष्टुः समीपम् अगमद् व्रीडितेव तपस्विनी
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः
आगच्छद् वडवा भूत्वा आच्छाद्य रूपम् अनिन्दिता कुरून् अथोत्तरान् गत्वा तृणान्य् अथ चचार ह
द्वितीयायां तु संज्ञायां संज्ञेयम् इति चिन्तयन् आदित्यो जनयाम् आस पुत्रम् आत्मसमं तदा
पूर्वजस्य मनोर् विप्राः सदृशो ऽयम् इति प्रभुः मनुर् एवाभवन् नाम्ना सावर्ण इति चोच्यते
द्वितीयो यः सुतस् तस्याः स विज्ञेयः शनैश्चरः संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै मनुस् तस्याः क्षमत् तत् तु यमस् तस्या न चक्षमे
स वै रोषाच् च बाल्याच् च भाविनो ऽर्थस्य वानघ पदा संतर्जयाम् आस संज्ञां वैवस्वतो यमः
तं शशाप ततः क्रोधात् सावर्णजननी तदा चरणः पतताम् एष तवेति भृशदुःखिता
यमस् तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् भृशं शापभयोद्विग्नः संज्ञावाक्यैर् विशङ्कितः
शापो ऽयं विनिवर्तेत प्रोवाच पितरं द्विजाः मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै