स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः तीरे चाभ्यर्च्य विधिवन् नारायणम् अनामयम्
रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् शतानाम् अश्वमेधानां फलं प्राप्नोति मानवः
सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः वृन्दारक इव श्रीमान् रूपयौवनगर्वितः
विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः
पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः
वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः योगं च वैष्णवं प्राप्य ततो मोक्षम् अवाप्नुयात्
ग्रहोपरागे संक्रान्त्याम् अयने विषुवे तथा युगादिषु षडशीत्यां व्यतीपाते दिनक्षये
आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः
फलं सहस्रगुणितम् अन्यतीर्थाल् लभन्ति ते पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः
अक्षयां पितरस् तेषां तृप्तिं संप्राप्नुवन्ति वै एवं स्नानफलं सम्यक् सागरस्य मयोदितम्
दानस्य च फलं विप्राः पिण्डदानस्य चैव हि धर्मार्थमोक्षफलदम् आयुष्कीर्तियशस्करम्
भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् सर्वपापहरं पुण्यं सर्वकामफलप्रदम्
नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक्
यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम्
तीर्थराजस् तु स पुनः सर्वतीर्थफलप्रदः भूतले यानि तीर्थानि सरितश् च सरांसि च
विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः राजा समस्ततीर्थानां सागरः सरितां पतिः
तस्मात् समस्ततीर्थेभ्यः श्रेष्ठो ऽसौ सर्वकामदः तमो नाशं यथाभ्येति भास्करे ऽभ्युदिते द्विजाः
स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः तीर्थराजसमं तीर्थं न भूतं न भविष्यति
अधिष्ठानं यदा यत्र प्रभोर् नारायणस्य वै कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः
कोट्यो नवनवत्यस् तु यत्र तीर्थानि सन्ति वै तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् यत् किंचित् क्रियते तत्र चाक्षयं क्रियते द्विजाः
ततो गच्छेद् द्विजश्रेष्ठास् तीर्थं यज्ञाङ्गसंभवम् इन्द्रद्युम्नसरो नाम यत्रास्ते पावनं शुभम्
गत्वा तत्र शुचिर् धीमान् आचम्य मनसा हरिम् ध्यात्वोपस्थाय च जलम् इमं मन्त्रम् उदीरयेत्
अश्वमेधाङ्गसंभूत तीर्थ सर्वाघनाशन स्नानं त्वयि करोम्य् अद्य पापं हर नमो ऽस्तु ते
एवम् उच्चार्य विधिवत् स्नात्वा देवान् ऋषीन् पितॄन् तिलोदकेन चान्यांश् च संतर्प्याचम्य वाग्यतः
दत्त्वा पितॄणां पिण्डांश् च संपूज्य पुरुषोत्तमम् दशाश्वमेधिकं सम्यक् फलं प्राप्नोति मानवः
सप्तावरान् सप्त परान् वंशान् उद्धृत्य देववत् कामगेन विमानेन विष्णुलोकं स गच्छति
भुक्त्वा तत्र सुखान् भोगान् यावच् चन्द्रार्कतारकम् च्युतस् तस्माद् इहायातो मोक्षं च लभते ध्रुवम्
एवं कृत्वा पञ्चतीर्थीम् एकादश्याम् उपोषितः ज्येष्ठशुक्लपञ्चदश्यां यः पश्येत् पुरुषोत्तमम्
स पूर्वोक्तं फलं प्राप्य क्रीडित्वा वाच्युतालये प्रयाति परमं स्थानं यस्मान् नावर्तते पुनः