वाराहं च तथाग्नेये नरसिंहं च नैरृते वायव्ये माधवं चैव तथैशाने त्रिविक्रमम्
तथाष्टाक्षरदेवस्य गरुडं पुरतो न्यसेत् वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत्
तथा महागदां चैव न्यसेद् देवस्य दक्षिणे ततः शार्ङ्गं धनुर् विद्वान् न्यसेद् देवस्य वामतः
दक्षिणेनेषुधी दिव्ये खड्गं वामे च विन्यसेत् श्रियं दक्षिणतः स्थाप्य पुष्टिम् उत्तरतो न्यसेत्
वनमालां च पुरतस् ततः श्रीवत्सकौस्तुभौ विन्यसेद् धृदयादीनि पूर्वादिषु चतुर्दिशम्
ततो ऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् इन्द्रम् अग्निं यमं चैव नैरृतं वरुणं तथा
वायुं धनदम् ईशानम् अनन्तं ब्रह्मणा सह पूजयेत् तान्त्रिकैर् मन्त्रैर् अधश् चोर्ध्वं तथैव च
एवं संपूज्य देवेशं मण्डलस्थं जनार्दनम् लभेद् अभिमतान् कामान् नरो नास्त्य् अत्र संशयः
अनेनैव विधानेन मण्डलस्थं जनार्दनम् पूजितं यः संपश्येत स विशेद् विष्णुम् अव्ययम्
सकृद् अप्य् अर्चितो येन विधिनानेन केशवः जन्ममृत्युजरां तीर्त्वा स विष्णोः पदम् आप्नुयात्
यः स्मरेत् सततं भक्त्या नारायणम् अतन्द्रितः अन्वहं तस्य वासाय श्वेतद्वीपः प्रकल्पितः
ओंकारादिसमायुक्तं नमःकारान्तदीपितम् तन्नाम सर्वतत्त्वानां मन्त्र इत्य् अभिधीयते
अनेनैव विधानेन गन्धपुष्पं निवेदयेत् एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु
मुद्रास् ततो निबध्नीयाद् यथोक्तक्रमचोदिताः जपं चैव प्रकुर्वीत मूलमन्त्रेण मन्त्रवित्
अष्टाविंशतिम् अष्टौ वा शतम् अष्टोत्तरं तथा कामेषु च यथाप्रोक्तं यथाशक्ति समाहितः
पद्मं शङ्खश् च श्रीवत्सो गदा गरुड एव च चक्रं खड्गश् च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः
गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम यत्र ब्रह्मादयो देवा विन्दन्ति परमं पदम्
अर्चनं ये न जानन्ति हरेर् मन्त्रैर् यथोदितम् ते तत्र मूलमन्त्रेण पूजयन्त्व् अच्युतं सदा
एवं संपूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत्
प्राणस् त्वं सर्वभूतानां योनिश् च सरितां पते तीर्थराज नमस् ते ऽस्तु त्राहि माम् अच्युतप्रिय
स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः तीरे चाभ्यर्च्य विधिवन् नारायणम् अनामयम्
रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् शतानाम् अश्वमेधानां फलं प्राप्नोति मानवः
सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः वृन्दारक इव श्रीमान् रूपयौवनगर्वितः
विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः
पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः
वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः योगं च वैष्णवं प्राप्य ततो मोक्षम् अवाप्नुयात्
ग्रहोपरागे संक्रान्त्याम् अयने विषुवे तथा युगादिषु षडशीत्यां व्यतीपाते दिनक्षये
आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः
फलं सहस्रगुणितम् अन्यतीर्थाल् लभन्ति ते पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः