शुक्लवर्णं प्रवर्षन्तम् अमृतं प्लावयन् महीम् एवं निर्धूतपापस् तु दिव्यदेहस् ततो भवेत्
अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः वामपादं समारभ्य क्रमशश् चैव विन्यसेत्
पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः
एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत्
नकारः शांभवः श्यामो दक्षिणे तु व्यवस्थितः मोकारं कालम् एवाहुर् वामकट्यां निधापयेत्
नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः राकारस् तेज इत्य् आहुर् नाभिदेशे व्यवस्थितः
वायव्यो ऽयं यकारस् तु वामस्कन्धे समाश्रितः णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः यकारो ऽयं शिरस्थश् च यत्र लोकाः प्रतिष्ठिताः
ममाग्रे ऽवस्थितो विष्णुः पृष्ठतश् चापि केशवः गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः
उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले अवान्तरदिशो यास् तु तासु सर्वासु माधवः
गच्छतस् तिष्ठतो वापि जाग्रतः स्वपतो ऽपि वा नरसिंहकृता गुप्तिर् वासुदेवमयो ह्य् अहम्
एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् यथा देहे तथा देवे सर्वतत्त्वानि योजयेत्
ततश् चैव प्रकुर्वीत प्रोक्षणं प्रणवेन तु फट्कारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम्
तत्रार्कचन्द्रवह्नीनां मण्डलानि विचिन्तयेत् पद्ममध्ये न्यसेद् विष्णुं पवनस्याम्बरस्य च
ततो विचिन्त्य हृदय ओंकारं ज्योतीरूपिणम् कर्णिकायां समासीनं ज्योतीरूपं सनातनम्
अष्टाक्षरं ततो मन्त्रं विन्यसेच् च यथाक्रमम् तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम्
द्वादशाक्षरमन्त्रेण यजेद् देवं सनातनम् ततो ऽवधार्य हृदये कर्णिकायां बहिर् न्यसेत्
चतुर्भुजं महासत्त्वं सूर्यकोटिसमप्रभम् चिन्तयित्वा महायोगं ज्योतीरूपं सनातनम् ततश् चावाहयेन् मन्त्रं क्रमेणाचिन्त्य मानसे
कर्णिकायां सुपीठे ऽत्र पद्मकल्पितम् आसनम् सर्वसत्त्वहितार्थाय तिष्ठ त्वं मधुसूदन
ॐ पाद्यं पादयोर् देव पद्मनाभ सनातन विष्णो कमलपत्त्राक्ष गृहाण मधुसूदन
मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं तव मया निवेदितं भक्त्या गृहाण पुरुषोत्तम
मन्दाकिन्याः सितं वारि सर्वपापहरं शिवम् गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम्
त्वम् आपः पृथिवी चैव ज्योतिस् त्वं वायुर् एव च लोकेश वृत्तिमात्रेण वारिणा स्नापयाम्य् अहम्
देवतत्त्वसमायुक्त यज्ञवर्णसमन्वित स्वर्णवर्णप्रभे देव वाससी तव केशव
शरीरं ते न जानामि चेष्टां चैव च केशव मया निवेदितो गन्धः प्रतिगृह्य विलिप्यताम्
ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना सावित्रीग्रन्थिसंयुक्तम् उपवीतं तवार्पये
दिव्यरत्नसमायुक्त वह्निभानुसमप्रभ गात्राणि तव शोभन्तु सालंकाराणि माधव
वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश् च ते मया निवेदितो भक्त्या धूपो ऽयं प्रतिगृह्यताम्
सूर्यचन्द्रसमो ज्योतिर् विद्युदग्न्योस् तथैव च त्वम् एव ज्योतिषां देव दीपो ऽयं प्रतिगृह्यताम्
अन्नं चतुर्विधं चैव रसैः षड्भिः समन्वितम् मया निवेदितं भक्त्या नैवेद्यं तव केशव
पूर्वे दले वासुदेवं याम्ये संकर्षणं न्यसेत् प्रद्युम्नं पश्चिमे कुर्याद् अनिरुद्धं तथोत्तरे