गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् अन्यांश् च सौरमन्त्रांश् च जप्त्वा तिष्ठन् समाहितः
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्य् ऋषीन्
मनुष्यांश् च पितॄंश् चान्यान् नामगोत्रेण मन्त्रवित् तोयेन तिलमिश्रेण विधिवत् सुसमाहितः
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः अधिकारी भवेत् पश्चात् पितॄणां तर्पणे द्विजः
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् तर्पणे तूभयं कुर्याद् एष एव विधिः सदा
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु तृप्यताम् इति सिञ्चेत् तु नामगोत्रेण वाग्यतः
कायस्थैर् यस् तिलैर् मोहात् करोति पितृतर्पणम् तर्पितास् तेन पितरस् त्वङ्मांसरुधिरास्थिभिः
अङ्गस्थैर् न तिलैः कुर्याद् देवतापितृतर्पणम् रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत्
भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित्
स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः पितॄणां नोपतिष्ठेत सलिलं तन् निरर्थकम्
उदके नोदकं कुर्यात् पितृभ्यश् च कदाचन उत्तीर्य तु शुचौ देशे कुर्याद् उदकतर्पणम्
नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना नोपतिष्ठति तत् तोयं यद् भूम्यां न प्रदीयते
पितॄणाम् अक्षयं स्थानं मही दत्ता मया द्विजाः तस्मात् तत्रैव दातव्यं पितॄणां प्रीतिम् इच्छता
भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः भूम्यां चैव लयं याता भूमौ दद्यात् ततो जलम्
आस्तीर्य च कुशान् साग्रांस् तान् आवाह्य स्वमन्त्रतः प्राचीनाग्रेषु वै देवान् याम्याग्रेषु तथा पितॄन्
देवान् पितॄंस् तथा चान्यान् संतर्प्याचम्य वाग्यतः हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम्
पुरं विलिख्य भो विप्रास् तीरे तस्य महोदधेः मध्ये तत्र लिखेत् पद्मम् अष्टपत्त्रं सकर्णिकम्
एवं मण्डलम् आलिख्य पूजयेत् तत्र भो द्विजाः अष्टाक्षरविधानेन नारायणम् अजं विभुम्
अतः परं प्रवक्ष्यामि कायशोधनम् उत्तमम् अकारं हृदये ध्यात्वा चक्ररेखासमन्वितम्
ज्वलन्तं त्रिशिखं चैव दहन्तं पापनाशनम् चन्द्रमण्डलमध्यस्थं राकारं मूर्ध्नि चिन्तयेत्
शुक्लवर्णं प्रवर्षन्तम् अमृतं प्लावयन् महीम् एवं निर्धूतपापस् तु दिव्यदेहस् ततो भवेत्
अष्टाक्षरं ततो मन्त्रं न्यसेद् एवात्मनो बुधः वामपादं समारभ्य क्रमशश् चैव विन्यसेत्
पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः
एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ओंकारं पृथिवीं शुक्लां वामपादे तु विन्यसेत्
नकारः शांभवः श्यामो दक्षिणे तु व्यवस्थितः मोकारं कालम् एवाहुर् वामकट्यां निधापयेत्
नाकारः सर्वबीजं तु दक्षिणस्यां व्यवस्थितः राकारस् तेज इत्य् आहुर् नाभिदेशे व्यवस्थितः
वायव्यो ऽयं यकारस् तु वामस्कन्धे समाश्रितः णाकारः सर्वगो ज्ञेयो दक्षिणांसे व्यवस्थितः यकारो ऽयं शिरस्थश् च यत्र लोकाः प्रतिष्ठिताः
ममाग्रे ऽवस्थितो विष्णुः पृष्ठतश् चापि केशवः गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः
उपरिष्टात् तु वैकुण्ठो वाराहः पृथिवीतले अवान्तरदिशो यास् तु तासु सर्वासु माधवः
गच्छतस् तिष्ठतो वापि जाग्रतः स्वपतो ऽपि वा नरसिंहकृता गुप्तिर् वासुदेवमयो ह्य् अहम्