जले स्थले च पाताले स्वर्गलोके ऽम्बरे नगे अवष्टभ्य इदं सर्वम् आस्ते नारायणः प्रभुः
किं चात्र बहुनोक्तेन जगद् एतच् चराचरम् ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम्
नारायणात् परं किंचिन् नेह पश्यामि भो द्विजाः तेन व्याप्तम् इदं सर्वं दृश्यादृश्यं चराचरम्
आपो ह्य् आयतनं विष्णोः स च एवाम्भसां पतिः तस्माद् अप्सु स्मरेन् नित्यं नारायणम् अघापहम्
स्नानकाले विशेषेण चोपस्थाय जले शुचिः स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत्
ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर् न्यसेत् शेषैर् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत्
ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत्
राकारं नाभिदेशे तु यकारं वामबाहुके णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत्
अधश् चोर्ध्वं च हृदये पार्श्वतः पृष्ठतो ऽग्रतः ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः
पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः पश्चिमे श्रीधरो देवः केशवस् तु तथोत्तरे
पातु विष्णुस् तथाग्नेये नैरृते माधवो ऽव्ययः वायव्ये तु हृषीकेशस् तथेशाने च वामनः
भूतले पातु वाराहस् तथोर्ध्वं च त्रिविक्रमः कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः
अहं नारायणो देवः शङ्खचक्रगदाधरः एवं ध्यात्वा तदात्मानम् इमं मन्त्रम् उदीरयेत्
त्वम् अग्निर् द्विपदां नाथ रेतोधाः कामदीपनः प्रधानः सर्वभूतानां जीवानां प्रभुर् अव्ययः
अमृतस्यारणिस् त्वं हि देवयोनिर् अपां पते वृजिनं हर मे सर्वं तीर्थराज नमो ऽस्तु ते
एवम् उच्चार्य विधिवत् ततः स्नानं समाचरेत् अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते
कृत्वा तु वैदिकैर् मन्त्रैर् अभिषेकं च मार्जनम् अन्तर् जले जपेत् पश्चात् त्रिर् आवृत्त्याघमर्षणम्
हयमेधो यथा विप्राः सर्वपापहरः क्रतुः तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम्
उत्तीर्य वाससी धौते निर्मले परिधाय वै प्राणान् आयम्य चाचम्य संध्यां चोपास्य भास्करम्
उपतिष्ठेत् ततश् चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् उपस्थायोर्ध्वबाहुश् च तल्लिङ्गैर् भास्करं ततः
गायत्रीं पावनीं देवीं जपेद् अष्टोत्तरं शतम् अन्यांश् च सौरमन्त्रांश् च जप्त्वा तिष्ठन् समाहितः
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद् दैवतान्य् ऋषीन्
मनुष्यांश् च पितॄंश् चान्यान् नामगोत्रेण मन्त्रवित् तोयेन तिलमिश्रेण विधिवत् सुसमाहितः
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः अधिकारी भवेत् पश्चात् पितॄणां तर्पणे द्विजः
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् तर्पणे तूभयं कुर्याद् एष एव विधिः सदा
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु तृप्यताम् इति सिञ्चेत् तु नामगोत्रेण वाग्यतः
कायस्थैर् यस् तिलैर् मोहात् करोति पितृतर्पणम् तर्पितास् तेन पितरस् त्वङ्मांसरुधिरास्थिभिः
अङ्गस्थैर् न तिलैः कुर्याद् देवतापितृतर्पणम् रुधिरं तद् भवेत् तोयं प्रदाता किल्बिषी भवेत्
भूम्यां यद् दीयते तोयं दाता चैव जले स्थितः वृथा तन् मुनिशार्दूला नोपतिष्ठति कस्यचित्
स्थले स्थित्वा जले यस् तु प्रयच्छेद् उदकं नरः पितॄणां नोपतिष्ठेत सलिलं तन् निरर्थकम्