प्रणिपत्य ततस् तं भोः परिपूज्य ततः पुनः मुच्यते सर्वरोगाद्यैस् तथा पापैर् ग्रहादिभिः
उग्रसेनं पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् गत्वाचम्य शुचिस् तत्र ध्यात्वा नारायणं परम्
न्यसेद् अष्टाक्षरं मन्त्रं पश्चाद् धस्तशरीरयोः ॐ नमो नारायणायेति यं वदन्ति मनीषिणः
किं कार्यं बहुभिर् मन्त्रैर् मनोविभ्रमकारकैः ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः
आपो नरस्य सूनुत्वान् नारा इतीह कीर्तिताः विष्णोस् तास् त्व् अयनं पूर्वं तेन नारायणः स्मृतः
नारायणपरा वेदा नारायणपरा द्विजाः नारायणपरा यज्ञा नारायणपराः क्रियाः
नारायणपरा पृथ्वी नारायणपरं जलम् नारायणपरो वह्निर् नारायणपरं नभः
नारायणपरो वायुर् नारायणपरं मनः अहंकारश् च बुद्धिश् च उभे नारायणात्मके
भूतं भव्यं भविष्यं च यत् किंचिज् जीवसंज्ञितम् स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम्
शब्दाद्या विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च प्रकृतिः पुरुषश् चैव सर्वे नारायणात्मकाः
जले स्थले च पाताले स्वर्गलोके ऽम्बरे नगे अवष्टभ्य इदं सर्वम् आस्ते नारायणः प्रभुः
किं चात्र बहुनोक्तेन जगद् एतच् चराचरम् ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम्
नारायणात् परं किंचिन् नेह पश्यामि भो द्विजाः तेन व्याप्तम् इदं सर्वं दृश्यादृश्यं चराचरम्
आपो ह्य् आयतनं विष्णोः स च एवाम्भसां पतिः तस्माद् अप्सु स्मरेन् नित्यं नारायणम् अघापहम्
स्नानकाले विशेषेण चोपस्थाय जले शुचिः स्मरेन् नारायणं ध्यायेद् धस्ते काये च विन्यसेत्
ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर् न्यसेत् शेषैर् हस्ततलं यावत् तर्जन्यादिषु विन्यसेत्
ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत्
राकारं नाभिदेशे तु यकारं वामबाहुके णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत्
अधश् चोर्ध्वं च हृदये पार्श्वतः पृष्ठतो ऽग्रतः ध्यात्वा नारायणं पश्चाद् आरभेत् कवचं बुधः
पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः पश्चिमे श्रीधरो देवः केशवस् तु तथोत्तरे
पातु विष्णुस् तथाग्नेये नैरृते माधवो ऽव्ययः वायव्ये तु हृषीकेशस् तथेशाने च वामनः
भूतले पातु वाराहस् तथोर्ध्वं च त्रिविक्रमः कृत्वैवं कवचं पश्चाद् आत्मानं चिन्तयेत् ततः
अहं नारायणो देवः शङ्खचक्रगदाधरः एवं ध्यात्वा तदात्मानम् इमं मन्त्रम् उदीरयेत्
त्वम् अग्निर् द्विपदां नाथ रेतोधाः कामदीपनः प्रधानः सर्वभूतानां जीवानां प्रभुर् अव्ययः
अमृतस्यारणिस् त्वं हि देवयोनिर् अपां पते वृजिनं हर मे सर्वं तीर्थराज नमो ऽस्तु ते
एवम् उच्चार्य विधिवत् ततः स्नानं समाचरेत् अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते
कृत्वा तु वैदिकैर् मन्त्रैर् अभिषेकं च मार्जनम् अन्तर् जले जपेत् पश्चात् त्रिर् आवृत्त्याघमर्षणम्
हयमेधो यथा विप्राः सर्वपापहरः क्रतुः तथाघमर्षणं चात्र सूक्तं सर्वाघनाशनम्
उत्तीर्य वाससी धौते निर्मले परिधाय वै प्राणान् आयम्य चाचम्य संध्यां चोपास्य भास्करम्
उपतिष्ठेत् ततश् चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् उपस्थायोर्ध्वबाहुश् च तल्लिङ्गैर् भास्करं ततः