यास्यसि परमं स्थानं राज्यामृतम् उपास्य च सर्वांल् लोकान् अतिक्रम्य मम लोकं गमिष्यसि
कीर्तिस् तवात्र राजेन्द्र त्रींल् लोकांश् च गमिष्यति सांनिध्यं मम चैवात्र सर्वदैव भविष्यति
श्वेतगङ्गेति गास्यन्ति सर्वे ते देवदानवाः कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयम् अम्बु च
स्पृष्ट्वा स्वर्गं गमिष्यन्ति मद्भक्ता ये समाहिताः यस् त्व् इमां प्रतिमां गच्छेन् माधवाख्यां शशिप्रभाम्
शङ्खगोक्षीरसंकाशाम् अशेषाघविनाशिनीम् तां प्रणम्य सकृद् भक्त्या पुण्डरीकनिभेक्षणाम्
विहाय सर्वलोकान् वै मम लोके महीयते मन्वन्तराणि तत्रैव देवकन्याभिर् आवृतः
गीयमानश् च मधुरं सिद्धगन्धर्वसेवितः भुनक्ति विपुलान् भोगान् यथेष्टं मामकैः सह
च्युतस् तस्माद् इहागत्य मनुष्यो ब्राह्मणो भवेत् वेदवेदाङ्गविच् छ्रीमान् भोगवांश् चिरजीवितः
गजाश्वरथयानाढ्यो धनधान्यावृतः शुचिः रूपवान् बहुभाग्यश् च पुत्रपौत्रसमन्वितः
पुरुषोत्तमं पुनः प्राप्य वटमूले ऽथ सागरे त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तपदं व्रजेत्
श्वेतमाधवम् आलोक्य समीपे मत्स्यमाधवम् एकार्णवजले पूर्वं रोहितं रूपम् आस्थितम्
वेदानां हरणार्थाय रसातलतले स्थितम् चिन्तयित्वा क्षितिं सम्यक् तस्मिन् स्थाने प्रतिष्ठितम्
आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् प्रणम्य प्रणतो भूत्वा सर्वदुःखाद् विमुच्यते
प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् काले पुनर् इहायातो राजा स्यात् पृथिवीतले
वत्समाधवम् आसाद्य दुराधर्षो भवेन् नरः दाता भोक्ता भवेद् यज्वा वैष्णवः सत्यसंगरः
योगं प्राप्य हरेः पश्चात् ततो मोक्षम् अवाप्नुयात् मत्स्यमाधवमाहात्म्यं मया संपरिकीर्तितम् यं दृष्ट्वा मुनिशार्दूलाः सर्वान् कामान् अवाप्नुयात्
भगवञ् श्रोतुम् इच्छामो मार्जनं वरुणालये क्रियते स्नानदानादि तस्याशेषफलं वद
शृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि भक्त्या तु तन्मना भूत्वा संप्राप्य पुण्यम् उत्तमम्
मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम्
तद्वत् स्नानं समुद्रस्य सर्वकालं प्रशस्यते पौर्णमास्यां विशेषेण हयमेधफलं लभेत्
मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् इन्द्रद्युम्नसरश् चैव पञ्चतीर्थीविधिः स्मृतः
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् तदा गच्छेद् विशेषेण तीर्थराजं परं शुभम्
कायवाङ्मानसैः शुद्धस् तद्भावो नान्यमानसः सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः
कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः
यं दृष्ट्वा मुच्यते पापात् सप्तजन्मसमुद्भवात् पुण्यं चाप्नोति विपुलं गतिम् इष्टां च भो द्विजाः
तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम्
वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः वटस्यैतानि नामानि कीर्तितानि कृतादिषु
योजनं पादहीनं च योजनार्धं तदर्धकम् प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम्
यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् दक्षिणाभिमुखो गच्छेद् धन्वन्तरशतत्रयम्
यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् सागराम्भःसमाकृष्टं काष्ठं सर्वगुणान्वितम्